SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ पाद-२, सूत्र-८६-९१ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने पंचमोऽध्यायः [२७१ पुनाति पवते वा-पवित्रोऽर्हन्, स मां पुनातु । करणेऽप्यन्ये ।।५।। ऋषि-नाम्नोः करणे ॥ ५. २. ८६ ॥ सत्यर्थे वर्तमानात पुवः करणे इत्रो भवति, ऋषौ संज्ञायां च । पूयतेऽनेनेति-पवित्रोऽयमषिः । नाम्नि-दर्भः पवित्रः, बहिः पवित्रम्, यज्ञोपवीतं पवित्रम्, ओघोपकरणं पवित्रम्, पवित्रा नदी । दर्भादीनां पवित्रमिति संज्ञा । ऋषो कर्तर्यपि केचित् ।।८६॥ __ न्या० स०-ऋषिनाम्नो:-ओघोपकरणमिति-वहति प्रापयति निरवद्यां सर्वसावद्यविरतिमिति अचि 'न्यक्रूद्ग' ४-१-११२ इति साधुः, यद्वा उङ शब्दे ऊयते शब्द्यते उपादेयतया लोकोत्तरे मघाघेति घः । लू-धू-सू-खन-चर-सहा-ऽतः॥५. २.८७॥ एभ्यः सत्यर्थे वर्तमानेभ्यः करणे इत्रो भवति । लुनात्यनेन-लवित्रम् , धुवत्यनेन-धुवित्रम्, धुनोतेरपि कश्चित-धवित्रम्, सुवत्यनेन-सवित्रम्, निरनुबन्धनिर्देशात धूग-सूङोर्न भवति । खनित्रम्, चरित्रम्, साहित्रम्, ऋच्छतीयति वा-ऽनेनारित्रम् । वहेरपि कश्चित्-वहित्रम् ॥७॥ नी-दाव-शसू-यु-युज-स्तु-तुद-सि सिच-मिह-पत-पा-नहसूट ॥५. २.८८ ॥ एभ्यः सत्यर्थे वर्तमानेभ्यः करणे ब्रट् प्रत्ययो भवति । नयत्यनेन-नेत्रम्, दांव , दान्त्यनेन-दात्रम्, शसू-शस्त्रम्, यु-योत्रम्, युज-योक्त्रम्, स्तु-स्तोत्रम्, तुद्-तोत्रम्, सि-सेत्रम्, सिच-सेक्त्रम्, मिह -मेढ़म, पत्-पत्रम्, पा-पात्रम्, पात्री, नह - नद्धः, नद्धी । टकारो ड्यर्थः ।।८।। हल क्रोडाऽऽस्ये पुवः॥ ५, २.८१॥ प्रास्यं मुखम्, पुवो धातोः सत्यर्थे हलास्ये क्रोडास्ये च करणे अट् प्रत्ययो भवति । पुनाति पवते वाऽनेन-पोत्रम्, हलस्य सूकरस्य च मुखमुच्यते ॥४९।। दंशस्त्रः॥ ५.२.१०॥ वंशेः सत्यर्थे वर्तमानात करणे त्रः प्रत्ययो भवति । दशत्यनया-दंष्ट्रा । प्रत्ययान्तरकरणमावर्थम् ॥६॥ धात्री ॥ ५. २. ११ ॥
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy