SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ २३४] बृहद्वृत्ति-लघुन्याससंवलिते [पाद-१, सूत्र-१-१२२-१२७ आभ्यां कर्मभ्यां पराद् धमतेः खश् प्रत्ययो भवति । पाणि धमति-पाणिधमः, करंधमाः । पाणि-कराव धेरपीति कश्चित-पाणिधयः, करंधयः । पाणिधमाः, करंधमाः, नाडिधमाः पन्थान इति तद्योगाद्, यथा-मञ्चाः क्रोशन्तीति ।।१२१॥ न्या० स०-पाणिकराव-पाणिधमा इति पाणिधमपुरुषयोगात् पथां ताच्छब्द्यं, अधिकरणे वा 'बहुलम्' ५-१-२ इति खश् इति पारायणम् । कूलादुद् जोद्रहः ॥ ५. १. १२२ ॥ कलात् कर्मण पराभ्याम् 'उद्रुज उद्वह,' इत्येताभ्यां पर. खश भवति । कूलमुद्रुजो गजः, कूलमुद्वहा नदी ।।१२२॥ वहाऽभ्राल्लिहः ॥ ५. १. १२३ ॥ वहा-ऽभ्राभ्यां कर्मभ्यां पराल्लिहेः खश् भवति । वहं लेढि-वहंलिहो गौः, अभ्रंलिहः प्रासादः ।। १२३ । बहु-विध्वरुस् तिलात् तुदः॥ ५. १. १२४ ॥ एभ्यः कर्मभ्यः पराव तुदेः खश् भवति । बहुं तुदति बहुन्तुदं युगम्, विधुतुदो राहु, . अरुंतुदः पीडाकरः, तिलंतुदः काकः । बहोः केचिदेवेच्छन्ति ।।१२४।। । न्या० स०-बहुविध्वरु०-अरुंतुद इति-मोन्ते संयोगस्य' २ १-८८ इति स लोपः।।" ललाट-बात-शर्धात् तपा-ज-हाकः ।। ५. १. १२५॥ ललाटादिभ्यः कर्मभ्यः परेभ्यो यथासंख्यं तप अज् हाक , इत्येतेभ्यः खश् भवति । ललाटं तपति ललाटंतपः सूर्यः, वातमजन्ति-वातमजा मृगाः, शर्धजहति शर्धजहा माषाः । खशः शित्त्वादजेर्वी आदेशो न भवति । हाक: ककारो हाङो निवृत्यर्थः ॥१२५।। असूर्योग्राद् दृशः ॥ ५. १. १२६ ॥ प्रसूर्योग्राभ्यां कर्मभ्यां पराव दृशेः खश् भवति । सूर्यमपि न पश्यन्ति-असूर्यपश्या राजदाराः, दृशिनां संबद्धस्य नमः सूर्येण सहासामर्थेऽपि गमकत्वात् समासः । उग्रं पश्यति-उग्रंपश्यः ॥१२६॥ न्या० स०-असूर्यो०-गमकत्वादिति-वाक्यार्थप्रतिपादकत्वादित्यर्थः । इरंमदः ॥ ५. १. १२७॥ कर्मण इति निवृत्तम् , इरापूर्वान्माद्यतेः खश् श्यामावश्च निपात्यते । इरा-सुरा, तया माद्यतीतिइरंमदः ॥१२७॥ न्या० स०-इरंमदः-कर्मण इति निवृत्तमिति-निपातनात् धातोरकर्मकत्वाद् वा।
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy