SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ ६८ ] बृहवृत्ति-लघुन्याससंवलिते [पाद-१, सूत्र-८५-46 न्या० स०-ग्रहवश्च०-पृच्छ्यते इति-क्यस्य सानुनासिकत्वं नादृतमिति 'अनुनासिके च' ४-१-१०८ इति शो न भवति । वरिष्ट इति-वशस्तु भाष्यकृताप्यनुदाहृतत्वान्न दशितं, प्रयोगस्तु वोष्टि: वोष्ट इति टिप्पनकृतः । व्येस्यमोर्यङि ॥ ४. १. ८५ ॥ व्येस्यमो: सस्वरान्तस्था यङि वृद्धवति । वेवीयते, वेश्योति, सेसिम्यते, सेसिमोति । यङ्लुपि नेच्छन्त्यन्ये । वाव्याति, संस्यन्ति । यडीति किम् ? व्ययति ॥८५।। चायः की ॥ ४. १.८६ चायगित्येतस्य यङि को इत्ययमादेशो भवति । चेकोयते । दीर्घनिर्देशो यङ्लुबर्थ:चेकीतः ॥८६॥ न्या० स०-चायः की-दीर्घनिर्देशात् यङ लुप्यप्यादेश इत्यर्थः, अन्यथा हि यदि साक्षात् यङयादेशः स्यात्तदा 'दीर्घश्च्चि' ४-३-१०८ इति दीर्घः सिद्धः, एवं 'प्यायः पी' इत्यत्रापि। दित्वे हः॥४. १.८७॥ ह्वयतेद्वित्वविषये सस्वरान्तस्था वृद्धवति । जुहाव, जुहुवतुः, जोहूयते, जोहवीति, जुहषति । अनेनैव सिद्धे उत्तरसूत्रकरणं णेरन्यस्मिन् द्वित्वनिमित्तप्रत्ययव्यवधायके ग्वृन्माभूदित्येवमर्थम् , तेनेह न भवति-ह्वायकमिच्छति हायकोयति । ततः सन् जिह्वायकोयिषति ॥८॥ णौ उनि ॥ ४. १.८८॥ यते: सस्वरान्तस्था ऊपरे सन्परे च णौ विषये स्वृद्भवति । अजुहवत , जुहावयिषति । णाविति विषयसप्तमीति किम् ? णिविषय एवान्तरङ्गमपि यकारागमं बाधित्वा ग्वृद्यथा स्यात् । ङसनीति किम् ? हाययति ॥८८। न्या० स०-णौङसनि०-यकारागमं बाधित्वेति-उपलक्षणत्वात् के णौ यत्कृतं कार्यम् , इति च वृत् यथा स्यादिति, कृते तु वृति यो न भवति, 'अत्तिरी०' ४-२-२१ इति प्वागमबाधकत्वेन आदन्तेभ्यो यस्य प्रवृत्तेः । श्वेवा ॥४. १. ८१ ॥ श्वयतेः सस्वरान्तस्था ऊपरे सन्परे च णौ विषये वृद्वा भवति । अशूशवत , अशिश्वयव, शुशावयिषति, शिश्वाययिषति । विषयविज्ञानादन्तरङ्गमपि वृद्ध्यादिकं वृता बाध्यते, कृते च तस्मिन्वृद्धिः, तत प्रावादेश उपान्त्यह्रस्वत्वम् , ततो णिकृतस्य
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy