SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ पाद-१, सूत्र-८१-८४ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने चतुर्थोऽध्यायः । [६७ न्या० स०-स्वपेय च-असूषुपदिति-न च वाच्यं * प्राक् तु स्वरे० * इति न्यायात् द्वित्वमेव भविष्यति न णिगाश्रितो गुणः, यतो यदि तेनैव द्वित्वनिमित्तेन प्रत्ययेन जन्यते स्वरविधिस्तदैव न स्यादऽत्र तु द्वित्वनिमित्तप्रत्ययाऽजन्य इति । असुषुपदिति-स्वमते तु असस्वापदिति । ज्याव्यधः क्ङिति ॥ ४. १.८१ ॥ जिनाविध्यतेश्च सस्वरान्तस्था किति डिति च प्रत्यये परे स्वत् भवति । जिज्यतुः जीयते, जीयात् , जीनः, ङिति-जिनाति, जेजीयते, जेजेति, विविधतुः, विध्यते, विध्यात् , विद्धः, डिति-विध्यति, वेविध्यते, वेवेद्धि । विङति इति किम् ? ज्याता, व्यद्धा ।।८१॥ न्या० स०-ज्याव्यधः-प्रत्यय इति विशेष्यं ङितीति विशेषणमतो धातुनिमित्तयोर्यथासंख्यं न भवति । जिनातीति-रवृत् 'दीर्घमवोन्त्यं' ४-१-१०३ 'प्वादेहूं स्वः' ४-२-१०५। व्यचोऽनसि ।। ४. १. ८२ ।। व्यचेः सस्वरान्तस्थाऽस्वजिते पिङति प्रत्यये परे म्वृद्भवति । विचिता, विचितुम् , वेविच्यते, विचति । अनसोति किम् ? उरुव्यचा: ।।२।। न्या० स०-व्यचोऽनसि-विचितेति-कुटादित्वात् ङित्वे यवृत् । उरुव्यचा इतिउरुविचति असित्यऽसः कुटादित्वात् ङित्वम् । वशेरयङि ।। ४. १. ८३ ॥ वशेः सस्वरान्तस्था अयङि डिति प्रत्यये परे वृद्भवति । उश्यते, ऊशतुः उशितम् , उष्टः, उशन्ति । अयङीति किम् ? वावश्यते । क्डिन्तीत्येव,-वष्टि ।।८३॥ ग्रह-वस्व-भ्रस्ज-प्रच्छः ॥ ४. १.८४॥ ग्रहादीनां सस्वरान्तस्था क्ङिति प्रत्यये परे य्वद्भवति । जगहतुः, जगृहुः गृह्यते, गृहीतः, जिघृक्षति, गृह्वाति, जरोगृह्यते, जरीगहीति, वृश्च्यते, वृक्णः, वृश्चति, वरीवृश्च्यते, भज्ज्यते, भृष्टः, भृज्जति, बरीभृज्ज्यते, पृच्छयते, पिपच्छिषति पृष्टः, पृच्छतिः, परीपृच्छचते, पच्छा। ङितोत्येव,-ग्रहीता, ववश्चतुः वभ्रज्जतुः, पप्रच्छतु, प्रश्नः । व्यचिवशिवश्चिभ्रस्जिप्रच्छीनां पञ्चानां यङलबन्तानां नेच्छन्त्यन्ये । तस् ,-वाव्यक्तः । नाम्नि-तिकवाव्यक्तिः, वावष्टः, वावष्टिः, वावष्टः, वावष्टिः, बाभ्रष्टः, बाभ्रष्टिः, पाप्रष्टः, पाप्रष्टिः। अन्ये तु के 'प्रकृतिग्रहणे यङ्लुबन्तस्यापि ग्रहणम्' * इति यङ्लुप्यपि मन्यन्ते तेन वेविक्तः, वेविक्तिः, वरिवृष्टः, बरिवृष्टिः बरिभृष्टः, बरिभृष्टिः, परिपृष्टः, परिपृष्टिः । अपरे तु विचतिवृश्चतिभृज्जतिपृच्छतीनां नित्यं वृत ज्यादीनां त्वनित्यमिति मन्यन्ते तेनेदं सिद्धम् 'तस्यास्त्रयस्त्रीनपि विव्यधुः शरैः' इति अन्ये तु विधिधुरित्येवाहुः ।।८४॥
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy