SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ [ पा० १ सू० ११६. ] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ५११ प्रकारे रूपं भिद्यते । अन्ये तु यस्मिन्स्यादो ये शब्दास्तुल्यरूपा भवन्ति तस्मिन् स्यादौ तेषां स्याद्यन्तरे विरूपाणामप्येकः शेषो भवति - तेन मातृभ्यां मातृभि: मातृभ्यः मात्रोः मातृणां मातृषु इत्याद्यपि भवतीत्याहुः । अपरे त्वत्रापि बहुवचने ताभिस्तैरित्याद्यनुप्रयोगवैषम्यान्न भवितव्यमेकशेषेण द्विवचनेन तु ताभ्यां तयोरित्यनुप्रयोग साम्याद्भवितव्यमेवेत्याहुः । असंख्य 5 इति किम् ? एकश्च एकश्च द्वौ च द्वौ च चत्वारश्च चत्वारश्च द्वन्द्वोऽपि न भवत्यनभिधानात् । संख्येय इति कर्मनिर्देशात्संख्यानवाचिनो भवत्येवविंशतिश्च विंशतिश्च विंशती, नवतिश्च नवतिश्च नवतिश्च नवतयः, द्वन्द्वापवादोऽयं विधिः - तेनाकृतद्वन्द्वानामेवैकशेषे वाक् च वाक् च वाचावित्यादि सिद्धम्, अन्यथा द्वन्द्व े कृते परत्वात्समासान्ते कृते वैरूप्यादेकशेषो न 10 स्यात् ।। ११६ । न्या० स० -- स्यादावसं० । सरूपार्थमिति अन्यथा अर्थसाम्यस्य स्यादावप्यभिद्यमानत्वात् पूर्वेणाऽपि सिद्ध्यति । पादा इति पादोऽहिश्लोकचतुर्थांशरश्मि प्रत्यन्तगिरिषु । माषो माने धान्यभेदे मूर्खत्वग्दोषभिद्यपि । श्रौकारे रूपं भिद्यत इति अयमर्थः 'तृस्वसृ' [ १. ४. ३८. ] इति सूत्रे तृग्रहणेनैव नप्त्रादिग्रहणे सिद्धे यन्नप्त्रादीनां 15 पृथगुपादानं तदेवं ज्ञापयति अत्र सूत्रे प्रौणादिकानामेषामेव ग्रहरणमिति जननीदेवरजायावाचिनो मातृयातृशब्दयोरौणा दिकयोरौकारे आर् न प्राप्नोति । द्वितीययोस्तु तृजन्तयोस्तृज्द्वारा प्राप्नोतीति रूपभेदः । वाचावित्यादीति अत्र समाहारद्वद्वविषयेऽप्येकशेषे वागशब्दात् द्विवचनमेव भवति । कुत: 'क्लो मन्येनैकं च वा' [ ३.१.१२८. ] इत्यत्र समाहारेतरेतरविवक्षया 20 विकल्पेनैकत्वे सिद्धेऽप्येकग्रहणात् । तेन विशेषाभावे सर्वत्र एकशेषे द्विवचनाद्येव भवति । असंख्य इति कर्मोपादानफलमाह-विंशतिश्चेत्यादि । असंख्येय इति कर्म्मप्रधानस्य निषेधो विशत्यादयस्तु न संख्येयप्रधानाः विंशतिर्गाव इति संख्येयसमानाधिकरणा अपि भवन्ति । संख्येयं संख्यानरूपमेवासाद्य तन्निष्ठा एव सन्तो भवन्ति न संख्येयरूप निष्ठाः । अत एव विशतिर्गवामित्य सामानाधिकरण्यवत् सामानाधिकरण्येऽपि गुणलिङ्गसंख्या एव नैका 25 दिवत् संख्येयलिङ्गसंख्या इत्यसंख्येयवाचित्वादेकशेषः । रूपसाम्येऽप्यनेकशब्दस्य सहोक्तौ द्वद्वः प्राप्नोतीत्ययमपि तदपवाद एवेत्याह-द्व द्वापवादोऽयं विधिरिति । एकश्च एकश्चेति ' त्यदादि:' [ ३. १. १२० ] इत्यनेनापि न भवत्येकशेषः, व्यावृत्तिबलात् । ननु प्रन्यस्य संख्यावाचिनो व्यावृत्तिश्चरितार्था भविष्यति ? नैवं व्यावृत्तेर्व्यक्त्या व्याप्त्या वा प्रवृत्तेः ॥। ३. १. ११६ ।। 30
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy