SearchBrowseAboutContactDonate
Page Preview
Page 552
Loading...
Download File
Download File
Page Text
________________ ५१० ] बृहद्वृत्ति-लघुन्याससंवलिते [पा० १. सू० ११६.] निवर्तमानानामर्थमभिदधीतेति ? सत्यं, एवं सति अर्थानुवादत्वाददोषः। प्लक्षन्यग्रोधाविति अर्थेन समानामिति वचनाल्लौकिक्या: समानार्थतायाः समाश्रयणादिहैकशेषो न भवति, लौकिकी तु समानार्थता द्वद्वादन्यत्र विज्ञायते, द्वद्वपदानां तु परस्परार्थसंक्रमात् समानार्थत्वे विज्ञायमानेऽर्थेन समानामित्यनर्थकं स्यादनुक्तावप्यत्रैकशेषस्य सिद्धत्वादिति । द्वद्वापवादो योग इति इहैकशेषे षट् पक्षा संभवन्ति । तत्र प्रत्येकमेव विभक्तौ परतो 5 विभक्तिपरित्यागेन नामैकशेषि स्यात् (१) अथवा सविभक्तिकानां वृक्षस् वृक्षस् इति स्थिते एकस्य वृक्षस् इत्यस्य शेषः अन्ये निवर्तन्ते (२) अथवा वृक्षश्च वृक्षश्च वृक्षश्च इति द्वद्वे कृते सत्येकस्य वृक्ष इत्यस्य शेषः अपरे निवर्तन्ते (३) अथवा विभक्तिमनुत्पाद्यैव नाममात्रेण वृक्षवृक्षेत्येवंविधानामेव शेषः कार्यः, ततो विभक्तिः (४) अथवा सहोक्तौ चेति द्वद्व प्राप्ते एकशेषः (५) अथवा नामसमूदायस्यैवार्थवत्त्वान्नामसंज्ञायां 10 द्विवचनाद्युत्पत्तौ एकशेषः (६) इति षट् पक्षाः। तत्राद्यं पक्षत्रयं सावद्यकमिति तत्परिहारेणेतरत् पक्षत्रयमिहाश्रीयते । यथा हि तत्र प्रथमे पक्षे नामैकशेषेऽनेकविभक्तिश्रवणं स्यादिति प्रथमपक्ष दोषः । द्वितीये विभक्त्यन्तस्य लोपे कृते विभक्तभ्रातृधनन्यायेन शिष्यमाणस्य निवर्त्तमानपदसंख्यासंबन्धेऽपि विभक्त्यन्तत्वाद् द्विवचनबहुवचनानुपपत्तिः स्यात् । ततश्च वृक्ष15 इति नित्यमेव स्यादिति द्वितीयपक्षे दोषः । तृतीये तु समासान्तदोषः, तथाहि ऋक् चेति ऋक् चेति द्वंद्व तत एकशेषे 'चवर्गदषहः' [७. ३. ६८. ] इति समासान्तः स्यात्, इति प्रथमपक्षत्रयं दुष्टं, इतरत्र तु पक्षत्रये न कश्चिद्दोषः, तथा हि वृक्षं वृक्षं इति स्थितानां नाम्नां विभक्तिमनुत्पाद्यैवैकशेषप्रवृत्तिरिति प्रथमपक्षो निर्दोषः, तथा तुल्यकालं नामानि यदा भारोद्यन्तृन्यायेन परस्परशक्त्यनुप्रवेशादभिधेयमाहुस्तदा द्वंद्व कशेषौ इष्टाविति20 द्विवचन बहुवचनं चोपपन्नमिति द्वितीयेऽपि न दोषः । तृतीयपक्षेऽपि न कश्चिद्दोषः । नामसमुदायस्यैवार्थवत्त्वान्नामत्वाद् विभक्त्युत्पत्तेरिति सोऽपोहाश्रीयते इति पक्षत्रयेऽपि द्वद्वः प्राप्तोऽनेनापोद्यते इत्याह द्वद्वापवादो योग इति ।। ३. १. ११८ ।। स्यादावसंख्येयः ॥ ३. १. ११६ ॥ सरूपार्थं वचनम् सर्वस्मिन् स्यादौ विभक्तौ समानां तुल्यरूपाणां सहोक्तौ25 गम्यमानायामेक: शिष्यते, असंख्येयः संख्येयवाचि शब्दरूपं वर्जयित्वा । अक्षश्च शकटाक्षः अक्षश्च देवनाक्षः अक्षश्च विभीतकाक्षः अक्षाः, एवं पादाः, माषाः, श्येनी च श्येनी च श्येन्यौ, एवं हरिण्यौ, रौहिण्यौ, वृक्षश्च वृक्षश्च वृक्षौ, वृक्षश्च वृक्षश्च वृक्षश्च वृक्षाः। स्यादाविति किम् ? माता च जननी माता च धान्यस्य मातृमातारौ, याता च देवरजाया याता च गन्ता30 यातृयातारौ, अत्र ह्य कत्र मातरौ यातरावित्यन्यत्र मातारौ यातारौ इति
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy