________________
[पा० ३. सू० ५६-६१.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ ३२६
न्या० स०--प्रादुरु० । शुभ्रादित्वादिति-न्यासे तु "चतुष्पात्०" [ ६. १. ८३. ] इति एय, वृत्तौ तु सारसंग्रहाद्यभिप्रायेण "सुभ्र वादिभ्यः" [७. ३. १८२.] इत्युक्तम् । विसृतमित्यादि-विसरतीति क्विपि तोऽन्ते क्विबन्ता धातुत्वं न त्यजन्ति इति न्यायात् 'विसृत्' इत्येवं रूपाद् धातुमात्रादम्रूपे स्वरादौ प्रत्ययेऽस्तेरिति किमिति व्यावृत्तेर्न द्वयङ्गवैकल्यन्, यदा तु क्तस्तदापि अस्तौ सति स्वरस्य प्रत्ययेति चिन्तेति न द्वयङ्ग- 5 विकलता ।। २.३.५८ ।। .
न स्सः ॥२. ३. ५६ ॥
कृतद्विर्भावसकारसंबन्धिनः सकारस्य षो न भवति। सुपिस्स्यते, सुतुस्स्यते; अत्र सुपूर्वस्य पिसेस्तुसेश्च सकारस्य क्ये "अदीर्घात्०" [१. ३. ३२.] इत्यादिना द्विर्भावः । ननु 'दधिस्यते, मधुस्यति, समचिस्करत्, अग्निसात्10 करोति' इत्यादिषु प्रतिषेधाभावात् षत्वं प्राप्नोति ? उच्यते-स्सस्सडागमयो स्सात् प्रत्ययस्य च द्विःसकारपाठस्य षत्वप्रतिषेधार्थत्वेनाभिधास्यमानत्वात् षत्वं न भवति ।। ५६ ।।
____ न्या० स०--न स्सः। सुपिस्स्यत इत्यादिप्रयोगस्थो द्विरुक्तः सकारः स्स इत्यनुक्रियते इत्याह-कृतेत्यादि । दधिस्यते अत्र "अस् च लौल्ये" [४. ३. ११५. ] स्स:15 ।। २. ३. ५६ ।।
सिचो यहि ॥ २. ३. ६० ॥
सिञ्चतेर्धातोः सकारस्य यङि प्रत्यये परतः षो न भवति । सेसिच्यते, अभिसेसिच्यते; परत्वादुपसर्गलक्षणमपि षत्वं बाधते । एवमुत्तरत्रापि । यङीति किम् ? अभिषिषिक्षति । ङकारः किम् ? अभिषिच्यते ।। ६० ।। 20
न्या० स०--सिचो०। षत्वमिति-“स्था-सेनि०" [ २. ३. ४०. ] इत्यनेन ॥२.३.६० ॥
गतौ सेधः ॥ २. ३. ६१ ॥
गतौ वर्तमानस्य सेधतेर्धातोः सकारस्य षो न भवति । अभिसेधति, अनुसेधति गाः, अभिगच्छति-अनुगच्छतीत्यर्थः; अभिसेधयति, अनुसेधयति-25 गमयतीत्यर्थः; अभिसिसेधिषति, अनुसिसेधिषति अभिजिगमिषति, अनु