________________
[पा० ३. सू० ४५-४६.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ ३२३
च ग्रहणम् ।' उपसर्गादित्यनुवर्तते । व्यवादित्यनुवृत्तौ तु तयोरेव विधानात् प्रतिवर्जनानर्थक्यं स्यात् ।। २. ३. ४४ ॥
स्व
जश्च ॥ २. ३. ४५ ॥
उपसर्गस्थात् नाम्यन्तस्थाकवर्गात् परस्य स्वजेः सकारस्य द्वित्वेऽप्यट्यपि षो भवति, परोक्षायां तु द्वित्वे सत्यादेरेव । अभिष्वजते, परिष्वजते 5 प्रतिष्वजते, अभिषिष्वङ्क्षते, परिषिष्वङ्क्षते, प्रतिषिष्वझते, अभिषाष्वज्यते, अभ्यष्वजत, प्रत्यष्वजत, अभ्यषष्वञ्जत; परोक्षायां त्वादेरेव-अभिषस्वजे, अभिषस्वजे; परिषस्वजे, परिषस्वजे; प्रतिषस्वजे, प्रतिषस्वजे । योगविभागादप्रतेरिति नानुवर्तते, चकारः परोक्षायां त्वादेरित्यस्यानुकर्षणार्थः, ततश्चोत्तरत्राननुवृत्तिः ।। ४५ ।।
10 न्या० स०-स्वञ्जश्च । अभिषिष्वङ्क्षते नन्वत्र “रिणस्तोरेव०" [ २. ३. ३७. ] इति निगमाद् मूलधातुसकारस्य षत्वं न प्राप्नोति, उच्यते-"स्पर्द्ध" परः, [७. ४. ११६.] इति न्यायात् इदमेव प्रवर्तते । अभिषस्वज इति-अत्र "स्वखर्नवा" [ ४. ३. २२. ] परोक्षाया वा कित्त्वम्, पक्षे किद्वदभावात् नलोपाभावः । योग विभागादित्यादि-ननु योगविभागात् परोक्षायां त्वादेरिति नानुवर्तते इति कथं न विज्ञायते ? सत्यम्-व्याख्यानतो15 विशेषप्रतिपत्तिरिति ।। २.३.४५ ।।
परि-नि-वे सेवः ॥ २. ३. ४६ ॥
परिनिव्युपसर्गस्थात् नाम्यन्तस्थाकवर्गात् परस्य सेवतेर्धातोः सकारस्य द्वित्वेऽप्यट्यपि षो भवति । परिषेवते, परिषिषेविषते, परिषेषेव्यते, परिषिषेवे, पर्यषेवत; 'निषेवते, निषिषेविषते, निषिषेवे, न्यषेवत, विषेवते, विषिषेविषते,20 विषिषेवे; व्यषेवत । परिनिवेरिति किम् ? अनुसेवते, प्रतिसिषेवे, प्रतिसेषेव्यते, प्रत्यसिषेवत् अत्रोपसर्गाश्रितं षत्वं न भवति, धातोस्तु द्वित्वाश्रितं भवत्येव ; उभयत्र नेच्छन्त्येके-प्रतिसिसेवे, प्रतिसेसेव्यते, प्रत्यसिसेवत् ।। ४६ ।।
न्या० स०--परिनिवेः । सेव इति सामान्योक्तऽपि 'षेवृङ' इति गृह्यते, न तु 'सेवृङ' इति । कृतस्येत्यनुवृत्तिरिति पारायणमतम्, न्यासकारास्तु षेवृङ-सेवृङौ सषोप-25 देशौ अग्रहीषुः ।। २. ३. ४६ ।।