SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ [पा० २. सू० ८८-८६.] श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ २७६ पर्याय इत्येव कार्य, भावे तु "णिवेत्ति०" [५. ३. १११. ] इत्यनेनाऽनप्रत्यय एव स्या । नन्वत्र प्रयोज्य-प्रयोजककोंः प्रधाने प्रयोजके षष्ठी प्राप्नोति गौण-मुख्ययो: इति न्यायात्, सत्यम्- यथा एकवाक्यस्थयोः कर्बोस्तृतीया स्यात् तथा तद्वाधिका षष्ठ्यपि । अन्ये तु घलेति-ललितस्वभाव इत्यर्थः । काशिकाकारस्तु स्त्र्यधिकारविहितयोरणकयो: प्रतिषेधादन्यस्मिन्नपि स्त्रीप्रत्यय एव षष्ठीमिच्छति । अपरे तु णकाकारयोर्भावाभि- 5 धायकयोः कृतोः प्रतिषेधाशंसनादन्यस्मिन् भावाभिधायक एव षष्ठीमिच्छन्ति ।।२.२.८७।। कत्यस्य वा ॥२. २.८८ ॥ कृत्यस्य कर्तरि गौरणान्नाम्न: षष्ठी वा भवति । भवतः कार्यः कटः, भवता कार्यः कटः; कर्तव्यः, करणीयः, देयः, कृत्यो वा कटः । कर्तरीत्येवगेयो माणवको गाथानाम्, प्रवचनीयो गुरुभदशाऽङ्गस्य ।। ८८ ॥ न्या० स०-कृतस्य वा। गेयो मारणवको गाथानामिति-अत्र व्यावृत्तेर्गाथानामित्यत्र कर्मणि साफल्यं, माणवकात् तु अगौणत्वात् प्राप्तिरेव नास्ति ।। २. २.८८ ॥ नोभयोहंतोः ॥ २. २. ८६ ॥ उभयोः-कर्तृ-कर्मणोः षष्ठीहेतोः कृत्यस्य संबन्धिनोरुभयोरेव षष्ठी न भवति । नेतव्या ग्राममजा मैत्रेण, ऋष्टव्या ग्रामं शाखा चैत्रेण; जेतव्यः15 शतं मैत्रश्चैत्रेण । उभयोर्हेतोरिति किम् ? एकैकहेतोर्मा भूत-उपस्थानीयः पुत्रः पितुः, उपस्थानीयः पिता पुत्रस्य ।। ८६ ।। न्या० स०--नोभयोः०। ननु द्विकर्मकेषु धातुषु तावदयं प्रतिधः, तत्रैवोभयप्राप्तिसंभवात, तत्र प्रधानकर्मणः कृत्येनैवाभिहितत्वात् षष्ठ्यविषयत्वा प्रधानाऽप्रधानसंनिधौ प्रधान एव संप्रत्ययः इति न्यायात् तव्यादिवत् अप्रधानादप्यप्रसङ्गात्20 कर्तर्येव प्रतिषेधो न्याय्य इत्युभयग्रहणमतिरिच्यते, नैवम्-द्वितीयाबाधिका हि कृत्प्रयोगे षष्ठी विधोयने, द्वितीया चाप्रधानाद् यथा भवति तथाऽत्र षष्ठयपि भविष्यति । उपस्थानीयः पुत्रः पितुः उपतिष्ठते "प्रवचनीयादयः" [५. १. ८.] इति कर्तर्यनीयः, अत्र पितुः शब्दात् “कर्मणि कृतः" [ २. २. ८३. ] इति कर्मणि षष्ठी, द्वितीये तु उपस्थीयते इति कर्मणि “तव्या-ऽनीयौ [५. १. २७.] “कृत्यस्य वा" [२.२.८८. ] इति कर्तरि25 पुत्रात् षष्ठी ।। २. २. ८६ ।।
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy