SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ २७८ ] बृहद्वृत्ति-लघुन्याससंवलिते [पा० २. सू० ८७.] न्या० स०--कर्त्तरि०। आसितु पर्यायः "पर्याय०" [५. ३. १२०.] इति णकः, आसिका। आसनम्, आसना "णिवेत्ति०" [५. ३. १११. ] इत्यनः ।। २.२. ८६ ।।। दिवहेतोरस्त्रयणकस्य वा ॥ २. २. ८७ ॥ स्त्र्यधिकारविहिताभ्यामकार-णकाभ्यामन्यस्य द्वयोः कर्तृ-कर्मषष्ठयोः 5 प्राप्तिहेतोः कृतः कर्तरि षष्ठी वा भवति, नित्यं प्राप्ते विभाषेयम् । विचित्रा सूत्रस्य कृतिराचार्यस्याऽऽचार्येण वा, साधु खल्विदं शब्दानामनुशासनमा- . चार्यस्याऽऽचार्येण वा, साध्वी संग्रहण्याः कृतिः क्षमाश्रमणस्य क्षमाश्रमणेन वा, आश्चर्यो गवां दोहोऽगोपालकस्य अगोपालकेन वा, साधु खलु पयसः पानं मैत्रस्य मैत्रेण वा, साध्वी खल्वनेकान्तजयपताकायाः कृतिराचार्यहरिभद्रस्या-10 ऽऽचार्यहरिभद्रण वा। गम्यमानेऽपि कर्मणि भवति-अन्तद्धौं येनाऽदर्शनमिच्छति, यस्याऽदर्शनमिच्छतीति वा; अत्राऽऽत्मन इति कर्म गम्यते । द्विहेतोरित्येकवचननिर्देशः किम् ? आश्चर्यमोदनस्य नाम पाकोऽतिथीनां च प्रादुर्भाव इति, भिन्नकृतोः कर्तृ-कर्मषष्ठीहेतुत्वमत्रेति न भवति । अस्त्र्यणकस्येति किम् ? चिकीर्षा मैत्रस्य काव्यानाम्, भेदिका चैत्रस्य काष्ठानाम् ; 15 रिणगन्तभिदेस्तु भेदिका चैत्रस्य मैत्रस्य काष्ठानाम् । कर्तरीत्येव-साधु खल्विदं शब्दानामनुशासनमाचार्यस्याऽऽचार्येण वेत्यत्र शब्दशब्दात् कर्मणि विकल्पो न भवति । अन्ये तु घअल्प्रत्यययोद्विहेत्वोः कर्मण्येव षष्ठीमिच्छन्ति न कर्तरि-पाश्चर्यो गवां दोहोऽगोपालकेन, आश्चर्य इन्द्रियाणां जयो यूना ।।८७।। न्या० स०--द्विहेतो०। नित्यं प्राप्ते इति-“कर्त्तरि" [ २. २. ८६. ] इत्यनेन ।20 खल्विदमिति-“खल संचये च" खलतीति "भृ-मृ-तृ ०" [उणा० ७१६.] इति बहुवचनादुः । [संग्रहण्याः] संगह्यन्ते स्तोकशब्दैर्बहवोऽर्था अस्यामिति "ऋ-ह-स." [ उणा० ६३८. ] इत्यणिः । अगोपालकेनेति-पालयतीति णकः, गवां पालक: "अकेन क्रीडाजीवे०" [ ३. १. ८१. ] समासः । अन्तद्धौ येनादर्शन मिच्छतीति-पञ्चमीविधायक पाणिनिसूत्रमिदम्', अस्य चायमर्थः-अन्तद्धौं-अन्तद्धिविषये आत्मनः कर्मतापन्नस्य येनो-25 पाध्यायादिना कर्तृ भूतेन यददर्शनं तदिच्छतीत्यर्थः । भिन्नकृतोरिति-ननु पाक इत्यत्रापि भावा-कोंर्घत्र, प्रादुर्भाव इत्यत्रापि स एव, तल कथं भिन्नकृतोरित्युच्यते, सत्यम्धातुभेदा: तस्यापि भेद इत्यदोषः। भेदिका चैत्रस्य मैत्रस्य काष्ठानामिति-भेयितु
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy