SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ [पा० ४. सू० ७५-७६.] श्रीसिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः [ १२७ आ अम्-शसोऽता ॥ १. ४. ७५ ॥ प्रोकारस्याम्-शसोरकारेण सह प्राकारो भवति । गाम्, सुगाम्, गाः, सुगाः पश्य ; द्याम्, अतिद्याम्, द्याः, सुद्याः पश्य । स्यादावित्येव ? अचिनवम् ।। ७५ ।। न्या० स०-आ अमित्यादि । नन्वत्र अतेति किमर्थम् ? यत एतद्विनाऽपि 'गा:' 5 इत्यादि प्रयोगजातं “समानानां०" [१. २. १.] इति दीर्घ सिद्धयतीति, उच्यतेअतेति पदं विना पुलिङ्ग "शसोऽता०" [ १. ४. ४६. ] इति स्त्रीलिङ्ग “लुगातोऽनापः" [२. १. १०७.] इति प्रवर्तेयाताम्, ततश्च 'गान्, गः' इत्याद्यनिष्टं स्यात्, स्थिते तु "शसोऽता०' [१. ४. ४६.] इत्यनेनैव दीर्घस्य संनियोगे नकारोऽभाणि । अचिनवमितिअत्र प्रादौ "समानादमोऽत:" [१. ४. ४६.] इत्यमोऽकारस्यापि लुग् न भवति, तत्रापि10 स्याद्यधिकारात् ।। ७५ ।। पथिन-मथिनुभुक्षा सौ ॥ १. ४. ७६ ॥ - 'पथिन्, मथिन् ऋभुक्षिन्' इत्येतेषां नकारान्तानामन्तस्य सौ परे आकारो भवति । पन्थाः, हे पन्थाः !; मन्थाः, हे मन्थाः !; ऋभुक्षाः, हे ऋभुक्षाः !; अमन्थाः, सुमन्थाः, बहुऋभुक्षाः । साविति किम् ? 15 पन्थानौ । कथं हे सुपथिन् ! हे सुपथि कुल !, हे सुमथिन् ! हे सुमथि कुल ! ? अत्र नित्यत्वान्नपुंसकलक्षणायाः सेलृपि सेरभावान्न भवति । नकारान्तनिर्देशादिह न भवति-पन्थानमिच्छति क्यनि नलोपे क्विपि च-पथीः, मथीः, ऋभुक्षीः ।। ७६ ।। न्या० स०--पथिनित्यादि-अत्र घुटीति सम्बन्धात् साविति श्लिष्ट निर्देशेन सुप्20 न गृह्यते । पन्था इति-अत्र सानुनासिकस्याप्यादेशो भवन् “लि लौ" [ १. ३. ६५. ] इत्यत्र द्विवचनेनैव ज्ञापितत्वाद् निरनुनासिक एव भवति । पथीरिति-पन्थानमिच्छति क्यनि नलोपः, स च "दीर्घश्च्वियङ" [ ४. ३. १०८. ] इति परे कार्येऽसन्न भवति, यत: "रात् सः" [ ३. १. ६०.] इत्यतः प्रागेव यत् सूत्रं तदेवासद भवति, इदं तु "रात् सः" [ २. १. ६०. ] इत्यतः परमिति नासत्, ततः पथीयतीति क्विपि अलोपे25 यलोपे चेदं रूपम् । नन्वनेनाऽऽत्वरूपे स्यादिविधौ विधातव्ये नलोपस्यासिद्धत्वान्नान्तत्वमस्ति, न च वाच्यम् "अतः" [ ४. ३. ८२. ] इत्यल्लुक: "स्वरस्व परे०" [७.४.११०.] इति स्थानिवद्भावेन नान्तत्वानुपपत्तिरिति, यतः प्रत्यासत्तेर्यनिमित्तो लुक् विधिरपि यदि तन्निमित्तो भवतीति व्याख्यानात्, अत्र तु अस्य लुक् क्विपि, आत्वं तु सौ प्रत्यये
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy