SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ ३२ आचार्यश्रीहेमचन्द्रविरचितं [भूवादिगणे याम् उपलाडयति । ललिण् ईप्सायाम् लालयते । "धुषेरविशब्दे" ४।४।६८। इति विशब्दप्रतिषेधाण्णिचोऽनित्यत्वे उल्ललते ॥ २५५ कडु मदे। उदित्त्वाद् ने कण्डति। चकण्ड । कडुङ् मदे उदित्त्वाद् ने कण्डते । कडमप्येकेऽत्र पठन्ति, स तु तुदादिपाठेनैव गतार्थ इति नेहाधीत ॥ 5 २५६ कद्ड कार्कश्ये। दोपान्त्योऽयम् । “तवर्गस्य-" १श६०। इति दस्य डत्वे कडुति । चकडु । अचि कड्डः कर्कशः । ते सेट्त्वात् “तेटो-" ५।३।१०६। इत्यः, कड्डा । क्विपि “पदस्य" २।१।८९। इति संयोगान्तलोपे कद् कत् । अन्ये तु डोपान्त्यमेनं मन्यन्ते, तदा संयोगान्तलोपे कड् कट् ॥ २५७ अद्ड अभियोगे। दोपान्त्यः । “तवर्गस्य-" १।३।६०। इति दस्य डत्वे अड्डति । 10 “अनातो-" ४।१।६९। इत्यात्वे ने च आनड्ड । सनि "न ब-द-नम्-"४।१।५। इति दस्य द्वित्वाभावे अड्डिडिषति । किपि “पदस्य" २।१।८९। इति संयोगान्तलोपे अद् अत् । अन्ये तु डोपान्त्यमेनं मन्यन्ते, तदा संयोगान्तलोपे अड् अट् ; सनि “न ब-द-नम्-" ४।१।५। इति प्रतिषेधाभावात् ड्डि इत्येतस्य द्वित्वे अडिड्डिषति ॥ २५८ चुड हावकरणे । हावो भावसूचनम् । दोपान्त्योऽयम् । “तवर्गस्य-" १।३।६०। इति 16 दस्य डत्वे चुडुति । चुचुड्ड । अचि चुडुं भगम् । किपि सौ “पदस्य--" २।११८९। इति संयोगान्तलोपे चुद् चुत्, साधुचुत् । डोपान्त्योऽयमित्यन्ये तत्र संयोगान्तलोपे चुड् चुट् ॥ अथ णान्ता एकानविंशतिः सेटश्च२५९ अण २६० रण २६१ वण २६२ व्रण २६३ वण २६४ भण २६५ भ्रण २६६ मण २६७ धण २६८ ध्वण २६९ ध्रण २७० कण २७१ क्वण २७२ चण शब्दे । शब्दः 20 शब्दक्रिया । अणति । आण आणतुः । “तिक्कृतो. नाम्नि" ५।११७१। इत्यकटि अणकः । अचि अणः, कुत्सायां कपि अणकः । उणादौ "कण्यणेर्णित्" (उ० ५६) इत्युके आणुकमक्षिमलम् । "शल्यणे:-" (उ० ५९) इति णिदूकः, आणूकं तदेव । “कण्यणि-" (उ० १६९) इति वा णिडः, अण्डः आण्डः । “कृ-श-कुटि-" (उ० ६१९) इति वा णिदिः, अणिः आणिरिकीलिका । "भृ मृ-तृ-त्सरि-" (उ० ७१६) इत्युः, अणुः । “अणे?ऽन्तश्च" (उ० ८३६) इति णिदूः, आण्डू25 जलभृङ्गारः॥ रण। रणति । रराण रेणतुः रेणुः । गतौ घटादित्वाण्णौ ह्रखः, रणयति, अन्यत्र राणयति । "प्राज-भास-" ४।२।३६। इति णौ डे वा इखत्वे अरराणत् अरीरणत् । अचि रणः । "युवर्ण-"५।३।२८। इत्यलि रण्यते रणः । रणन्त्यस्मिन्निति “व्यञ्जनाद्-" ५।३।१३। घनित्यस्यापवादे बाहुलकात् "पुन्नाम्नि-" ५।३।१३०। इति घे रणः । “चालशब्दार्थात्-" ५।२।४३॥ इत्यने १ चलश संपा१ ॥
SR No.034254
Book TitleDhatu Parayan
Original Sutra AuthorHemchandracharya
AuthorMunichandravijay
PublisherShahibaug Girdharnagar Jain S M P Sangh
Publication Year1979
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy