SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ ३९५ ] धातुपारायणे चुरादयः (९) ___ अथ जान्तौ ॥ '३८९ वृजेण् वर्जने' । वर्जयति, वर्जति । ऐदित्वात् क्तयोनेंट् , अपवृक्तः, अपवृक्तवान् । घनि वर्गः । वृजैकि वर्जने [२१५३], वृक्ते ॥ '३९० मृजौण शौचालङ्कारयोः' । “ मृजोऽस्य० " ४।३।४२ इति वृद्धौ मार्जयति । "णिवेत्ति०" ५।३।१११. इत्यने मार्जना । क्ते " सेट्क्तयोः" ४।३।८४ इति टुंकि मार्जिता रसाला, मर्जितेति रूढः, पक्षे मार्जति । औदिचाद् वेट मार्जिता, माझं । वेट्त्वात् क्तयोर्नेट्, मृष्टः, मृष्टवान् । मृजौक् शुद्धौ [ २१३९ ], माष्टिं ॥ । अथ ठान्तः ॥ '३९१ कठुण् शोके ' । उदिवाने कण्ठयति, उत्कण्ठति । कटुङ् शोके .. [११६७८ ], कण्ठते, उत्कण्ठते ॥ अथ थान्ताश्चत्वारः ॥ ___३९२ श्रन्थ ३९३ ग्रन्थण् सन्दर्भे ' । सन्दर्भो बन्धनम् । श्रन्थयति, श्रन्थति । ग्रन्थयति, ग्रन्थति । श्रथुङ् शैथिल्ये [ ११७१७]. श्रन्थते। ग्रथुङ् कौटिल्ये [ १७१८ ], ग्रन्थते । श्रन्था मोचनप्रतिहर्षयोः [८१३९ ], अथ्नाति । ग्रंथश सन्दर्भ [ ८१४१], प्रथ्नाति ॥ '३९४ क्रथ ३९५ अर्दिण् हिंसायाम् ' । क्राथयति, चौरस्य उत्क्राथयति । ऋथति । ऋथ हिंसाः [१।१०४५], णिगि घटादित्वाद् एस्वे चौरम् उत्कथयति ।। अथ लाघवार्थं थान्तमध्ये एव अर्थानुगुण्येन दान्तः ॥ ' ३९५ अर्दिण' । इदिचाद् अस्य णिजभावे आत्मनेपदे न सार्थकत्वाद् णिचि "शेषात्० " ३।३।१०० इति परस्मैपदे अर्दयति । अर्दते। परस्मैपद्ययम् इत्येके, अर्दति । अर्द गतियाचनयो: [१।३०१], अर्दति । ૪૫
SR No.034254
Book TitleDhatu Parayan
Original Sutra AuthorHemchandracharya
AuthorMunichandravijay
PublisherShahibaug Girdharnagar Jain S M P Sangh
Publication Year1979
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy