SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ आचार्यश्रीहेमचन्द्रविरचिते [ धा० ३०० D अथ ठान्तौ ॥ - '३०० शठ ३०१ श्वठण 'सम्यगभाषणे' । शठयति, श्वठयति । डे अशशठत् , अशश्वठत् । शठ कैतवे च [१।२२२ ], शठति । णिगि शाठयति । शठ श्वठ चठुण संस्कारगत्योः [ ९।४९, ५०, ५१ ], शाठयति, श्वाठयति, श्वण्ठयति । अथ डान्तः ॥ '३०२ दण्डण दण्डनिपातने ' । दण्डयति । दण्डादे म्नो णिचि दण्डयत्यादिसिद्धौ दण्डणप्रभृतीनां पाठो यथाभिधानं णिचं विनाऽपि प्रयोगार्थः । अत एवाऽदन्तत्वमप्यनेकस्वरकार्यार्थ फलवत् ॥ अथ णान्ता अष्टौ ॥ '३०३ व्रणण गात्रविचूर्णने ' । व्रणयति । उ अवव्रणत् । अचि व्रणः । प्रण शब्दे [ १।२६२ ], व्रणति । णिगि वाणयति ॥ . . '३०४ वर्णण वर्णक्रियाविस्तारगुणवचनेषु' । वर्णक्रिया वर्णनं वर्णकरणं वा । कथां वर्णयति, सुवर्ण वर्णयति । विस्तारे वर्णनेयम् । गुणवचनं स्तुतिः शुक्लायुक्तिर्वा, राजानम् उपवर्णयति । "नाम्नि पुंसि च" ५।३।१२१ इति णके वर्णकः ॥ ' '३०५ पर्णण हरितभावे' । पर्णयति । अचि पर्णम् ॥ ३०६ कर्णण भेदे ' । कर्णयति, आर्णयति ।। '३०७ तूणण संकोचने ' । वितूणयति मुखम् । डे व्यतुतूणत् । चूण तूणण संकोचने [ ९।७४, ७५ ], असमानलोपित्वाद् "उपान्त्यस्या०" ४।२।३५ इति इस्वे अतूतुणत् ॥ '३०८ गणण संख्याने' । गणयति । ( " २६ च गणः " ४११६७ इति पूर्वस्याऽन्वे ईति च अजगणत , अजीगणत् । णके गणकः । “कर्मजा तृचा च" ३।११८३ इति प्रतिषिद्धोऽपि " पत्तिस्थौ०" ३३११७९ इति षष्ठीसमासः, पत्तिगणकः, स्थगणक: । स्त्रियामापि गणयति धनागममिति गणिका । अलि गणः । "णिवेत्ति० " ५।३।१११ इत्यने गणना ॥ १. असम्यग्भाषणे इति क्षीर० (क्षी त. पृ. ३११)॥ २. 'ईश्च ग° इति मु० ॥
SR No.034254
Book TitleDhatu Parayan
Original Sutra AuthorHemchandracharya
AuthorMunichandravijay
PublisherShahibaug Girdharnagar Jain S M P Sangh
Publication Year1979
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy