SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ २०० ] धातुपारायणे चुरादयः (९) [३२९ १९२ जसण ताडने'। जासयति । " जासनाट० ॥ २॥२॥१४ इतिकर्मणो वा कर्मत्वे " शेषे" २२१८१ इति षष्ठ्याम् चौरस्य उजासयति । अर्थान्तरे तु जमूच मोक्षणे [३८० ], जस्यति । जसण हिंसायाम् | ९।१४६] इति पठितोऽप्यर्थभेदात् पुनरधीतः ॥ . . १९३ सण वारणे' । धारणे इति नन्दी । ग्रहणे इत्येके । वासयति मृगान् , निराकरोतीत्यर्थः । अर्थान्तरे तु सैच भये [ ३।२८ ], त्रस्यति, सति ॥ . . १९४ वसण स्नेहच्छेदाबहरणेषु' । स्नेहे वासयति वसा । छेदे वासयति वृक्षम् । अवहरणे वासयति अरीन् , मारयतीत्यर्थः । अर्थान्तरे तु वसं निवासे [ ११९९९ ], वसति । वसिक आच्छादने [ २।५९ ], वस्ते ॥ . १९५ ध्रसण उत्क्षेपे' । उन्छे इन्येके । ध्रासयति । अर्थान्तरे तु ध्रवश् उञ्छे [ ८५९], ध्रस्नाति । उकारादी इमो इत्येके, उध्रासयति, उध्रस्नाति ॥ — १९६ ग्रसण् ग्रहणे' । ग्रासयति फलम् । अर्थान्तरे तु प्रसूङ् अदने [ ११८५४ ], ग्रसते ॥ ___ १९७ लसण शिल्पयोगे' । लासयति दारु, भ्रमादिना तक्ष्णोतीत्यर्थः । अर्थान्तरे तु लस श्लेषणक्रीडनयोः [११५४३], लसति । भ्वादौ पाठः शिल्पयोगेऽपि णिजभावार्थः । एवमन्यत्रापि । पान्तोऽयमित्येके', लापयति दारु । अन्यत्र लषी कान्तौ [ १।९२७ ], लषति, लष्यति । तालव्यान्त इति तु कौशिकः ॥ अथ हान्तः ॥ - १९८ अर्हः पूजायाम् ' । अयति । उ आर्जिहत । "णिवेति०" ५।३।१११ इत्यने अर्हणा । अर्थान्तरे तु अर्ह पूजायाम् [ ११५६४ ], अर्हति ॥ अथ क्षान्तः ॥ · १९९ मोक्षण असने' । मोक्षयति शरान् । “युवर्ण० " ५।३।२८ इति अलि मोक्षः । अन्यत्र मोक्षति ॥ अथ वर्णक्रमेण भासार्थाः। तत्र कान्तौ ।। '२०० लोक, २०१ तर्क, २०२ रघु, २०३ लघु, २०४ लोच, २०५ विछ, २०६ अजु, २०७ तुजु, २०८ पिजु, २०९ लजु, २१० लुजु, २११ भजु, १. क्षीरस्वामी (क्षी. त. पृ. ३०, ३३०) ॥
SR No.034254
Book TitleDhatu Parayan
Original Sutra AuthorHemchandracharya
AuthorMunichandravijay
PublisherShahibaug Girdharnagar Jain S M P Sangh
Publication Year1979
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy