SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ उपकृतिस्मृतिः विविधभाषकोविदःभारतीयदर्शनशास्त्रविशारदैः जिनागमतत्वकुशलैः पूज्यमुनिराजश्री भुवनविजयजीमहाराजान्तेवासिभिः मुनिराजश्री जम्बूविजयमहाराजैः भूयो भूयो मार्गदर्शनप्रदानेन बहुसाहाय्यं कृतम् । अनेकशः परामर्शदानेन च समये समये मम क्षतयः परिमार्जिताः, अतः ते विशेषत उपकारिणः । ___ पूज्य मुनिराजश्री यशोविजयमहाराजानां प्रेरणया साहाय्येनैव च ग्रन्थोऽयं सम्पादितो मया । न केवलं तैः पाठान्तरग्रहणे मुद्रणाहप्रतिलिपिलेखने प्रूफशोधन एव च साहाय्यं कृतम् , अपि तु सर्वप्रकारेण मम योगक्षेमरक्षा कृता । किश्च, ते मम गृहस्थावस्थायां ज्येष्ठभ्रातरः अधुना च विविधशास्त्राध्यापनेन विद्यागुरवः। तेषामेव असीमवात्सल्यात् सर्वथा साहाय्याच्चैवेदं ग्रन्थरत्नं निश्चिन्तमनसा मया सम्पादितम् । वस्तुतः अस्य समग्रसम्पादनसौष्ठवस्य यशः तेषामेव । परिशिष्टानां प्रूफशोधने बालमुनिमहायशविजयेनाऽपि साहाय्यं कृतम् । परमकृपालुपरमात्मनः परमोपकारीणां परमपूज्यानां प्रातःस्मरणीयानाम् आचार्यदेवेश-श्रीमद्विजयभद्रसूरीश्वराणां च परमकृपया साहाय्याश्चैव इदं कार्य सम्पन्नमिति तेषां चरणेषु अनन्तशः प्रणिपातं विधाय प्रभुश्रीयुगादिदेवस्य ऋषभजिनेशस्य जन्म-दीक्षाकल्याणक पवित्रिते अद्य दिने प्रणिपत्य युगादीशं महायाम्येतेन कुसुमेन । ] . विक्रम संवत २०३५ फल्गुनकृष्णा अष्टमी श्री ऋषभदेव जन्म-दीक्षा कल्याणकदिनम् जुनाडीसा (जिल्ला बनासकांठा) उत्तरगुजरात इत्यावेदयति पूज्यपादाचार्यदेवेशश्रीमद्विजयभद्रसूरीश्वरशिष्यपूज्यपादमुनिराजश्रीजिनचन्द्रविजयान्तेवासी मुनि मुनिचन्द्रविजयः है
SR No.034254
Book TitleDhatu Parayan
Original Sutra AuthorHemchandracharya
AuthorMunichandravijay
PublisherShahibaug Girdharnagar Jain S M P Sangh
Publication Year1979
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy