________________
३७ ] धातुपारायणे दिवादयः (३)
अथ चान्तः सेट् च ॥ ३३ उचच समवाये' । समवाय ऐक्यम् । उच्यति, उबोच । पुष्यायङि औचत् । उचिता, उचितः, उचित्वा । घजि न्यवादित्वात् कत्वे ओकः । उणादौ "शि-पिशि०" ( उ० २१२ ) इति किति इते उचितम् । “ उच्यश्चेः क च" (उ० ९६५) इति असि ओकः, ओकसी । द्यौः ओकः येषां ते, पृषोदरादित्वाद् , दिवौकसः । दिवशब्दो वा अकारान्तः ॥
अथ टान्तः सेट् च ॥ ३४ लुटच विलोटने' । लुट्यति । लुलोट । पुष्याघडि अलुटत् । लोटिता, लुटितः । लुट विलोटने [ १११९० ], लोटति, अलोटीत् । लुटण भासार्थः [ ९।२१४ ], लोटयति ॥
__अथ दान्ताश्चत्वारः ॥ '३५ विदांच गात्रप्रक्षरणे' । गात्रप्रक्षरणम्-धर्मतिः । “सः पो." २।३।९८ इति सत्वे स्विद्यति । पोपदेशत्वात् “ नाम्यन्तस्था०" २।३।१५ इति पत्वे सिग्वेद । पुष्याद्यङि अस्विदत् । आदित्वात् क्तयोर्नेट् , स्विनः, स्विन्नवान् । " नवा भावारम्भे" ४।४।७२ इति वा नेटि स्विनमनेन प्रस्विन्नः । पक्षे इटि " न डीङ्" ४।३।२७ इति किवाभावाद् गुणे स्वेदितमनेन प्रस्वेदितः । अनुस्वारेवान्नेट, स्वेत्ता, स्वित्वा । निविदाङ् मोचने च [११९४६], स्वेदते, स्वेदिता ॥ .. '३६ क्लिदौच आर्द्रभावे ' । क्लियति, चिक्लेद । पुष्याद्यङि अक्लिदत् ।
औदिचात् वेट् । सनि चिक्लित्सति । क्लित्वा । पक्षे इटि "वो व्यअनादेः०" ४।३।२५ इति वा किच्चे चिक्लिदिषति, चिक्लेदिषति, क्लिदित्वा, क्लेदित्वा । वेट्त्वात् क्तयोनेट् , क्लिन्नः, क्लिन्नवान् । “ नाम्युपान्त्य०" ५।१५४ इति के " चिक्लिद०" ४।१।१४ इति निपातनात् चिक्लिदः । उणादौ " भृमृत० " ( उ० ७१६) इति उः, क्लेदुः योनिः ॥
३७ जिमिदाच स्नेहने' । “मिदः श्ये " ४३५ इति गुणे मेद्यति । मिमेद । पुप्यायडि अमिदत् । मेदिता । जीवात् “ ज्ञानेच्छा. " ५।२।९२ इति सति ते “ आदितः" ४।४।७१ इति नेटि मिन्नः मिन्नवान् । “नवा भावारम्भे" ४।४।७२ इति वा नेट् , मिन्नमनेन, प्रमिन्नः । पक्षे इटि " न डी०" ४।३।२७ २७