SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ १८ ] धातुपारायणे अदादयः (२) इत्वरी । मनि स्वेमा, वनि स्वेवा । क्वनिपि स्वित्वा । विचि स्वेः। विपि एति इति इत् । “युवर्ण" ५।३।२८ इत्यलि अयः, अन्ययः, समयः । " इणोऽभ्रेषे" ५३।७५ इत्यलपवादे पनि न्यायः । “परेः क्रमे" ५।३७६ पर्यायः; क्रमादन्यत्रालि विपर्ययो मतेः । “समज० " ५।३।९९ इति क्यपि इत्या । " न्यायावाया०" ५।३।१३४ इति निपातनात् करणे पनि न्यायः । उणादौ " कृवापा० " ( उ० १) इत्युणि आयुः नरः, पुरूरवः, पुत्रः, जीवनं च; जरायुः गर्भवेष्टनम् , जटायुः पक्षी । “मीणशलि." ( उ० २१) इति के एकः । " इणुर्विशा०" (उ० १८२ ) इति णे एणः । “दम्यमि०" (उ० २००) इति ते एतः वर्णः । “अवभृ०" (उ० २२९) इति किति थे समिथः संगमः। "जीणशी०" (उ० २६१) इति किति ने एनः । " इणः कित्" (उ० ३२८) इति मे इभः । “ इणधाग्भ्यां वा” (उ० ३८९) इति वा किति रे इरा सूरा, भृश्च । एरा एडका । " खुरक्षुर० " (उ० ३९६) इति रे निपातनाद् दुःपूर्वस्य [ इणः ] दम् । “समिण " ( उ० ५९८ ) इति आः, समया गिरिम् । " अस्" (उ० ९५२ ) इत्यसि अयः लोहम् । " इणो णित् " ( उ० ९९८ ) इति उसि आयुः, आयुषी । " अर्तीणभ्यां नस्" ( उ० ९७९) एनः पापम् । आग इति तु अगे: “ वस्त्यगिभ्यां णित् " ( उ० ९७०) इत्यसि ॥ अथेदन्तोऽनिट् च ॥ १८ वींक प्रजन-कान्त्यसनखादने च'। चकाराद् गतौ । प्रजनः प्रथमगर्भग्रहणम् , असनं क्षेपः, अशनं तृप्तिरित्येके । वैति, वीतः, वियन्ति, विवाय, विव्यतुः, विव्युः । अत्र "असिद्धं पहिरङ्गमन्तरङ्गे" [न्याय-२० ] इति यत्वस्यासिद्धत्वाद् " वादे." २।१।६३ इति पूर्वस्य दीर्घामावः । अनुस्वारेवान्नेट् , वेता, वेतुम् । “वियः प्रजने" ४।२।१३ इति वात्वे पुरोवातो गाः प्रवापयति, पक्षे " नामिनो०" ४३५१ इति वृद्धौ प्रवाययति । क्ते वीतम् असारं हस्त्यश्वम् । “तिकृती नाम्नि" ५।१७१ इति तिकि वीतिः अश्वः । उणादौ "वीपतिपटिभ्यस्तनः" (उ० २९२ ) वेतनं भृतिः । “हुयामा०" (उ० ४५१) इति त्रे वेत्रः । " तसच" (दृ० उ० ५८० ) इति तसे वेतसः । " कावावी. " (उ० ६३४ ) इति णौ वेणिः 'कबरी । “वीयुसु०" (उ० ६७७) शत नौ १. कवरी इति मु० ॥
SR No.034254
Book TitleDhatu Parayan
Original Sutra AuthorHemchandracharya
AuthorMunichandravijay
PublisherShahibaug Girdharnagar Jain S M P Sangh
Publication Year1979
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy