________________
९४७ ] धातुपारायणे भ्वादयः (१) इति वेटप्रतिषेधे मित्रमनेन, मेदितमनेन, प्रमिन्नः, प्रमेदितः, अत्रेटि " न डी० " ४।३।२७ इति किन्चप्रतिषेधाद् गुणः । लिहायचि मेदो म्लेच्छः । “भलिभासि०" ५।२।७४ इति घुरे मेदनशीलो मेदुरः । उणादौ "चिमिदि०" ( उ० ४५४) इति किति त्रे मित्रम् । “ अस" (उ० ९५२) इति असि मेदः वसा । जिमिदाच स्नेहने [३।३७ ] मेद्यति । मिदुण् स्नेहने [९।९०] मिन्दयति ॥
'९४५ निविदाङ् ९४६ निश्विदाङ् मोचने च'। चकारात् स्नेहने । श्वेदते, चिक्ष्विदे । द्युताद्यङि अश्विदत् , अश्वेदिष्ट । जीचाद् वर्तमाने क्तः, विष्णः, अत्रादित्चान्नेट् । " नवा भावारम्भे" ४।४।७२ इति वेटप्रतिषेधे श्वेदितमनेन, विण्णमनेन, प्रक्ष्वेदितः, प्रविण्णः, प्रक्ष्वेदितवान् , प्रक्षिण्णवान् । एविटि " नडीङ" ४।३।२७ इति कित्त्वप्रतिषेधाद् " लघो०" ४।३४ इति गुणः । डान्तोऽयमित्येके । श्वेडः विषः, वेडा स्वः । निविदाच मोचने च [३॥३८ ] विद्यति ॥
____ ९४६ जिश्विदाङ। "प: सो." २१३९८ इति सत्वे स्वेदते । " नाम्यन्तस्था० " २।३।१५ इति षत्वे सिविदे । द्युताद्यडि अस्विदत् अस्वेदिष्ट । जीचात् सति क्ते स्विनः, स्विन्नवान् ; अत्रादित्वान्नट् । “ नवा भावारम्भे" ४।४।७२ वेडभावे स्विन्नमनेन, स्वेदितमनेन, प्रविन्नः, प्रस्वेदितः, अत्रेटि " नडी० " ४३।२७ इति किवाभावाद् गुणः । “वो व्यअनादेः०" ४।३२५ इति क्त्वासनोर्वा किल्वे स्विदित्वा, स्वेदित्वा, सिस्विदिषते, सिस्वेदिषते, अत्र "णिस्तोरेवा." २।३।३७ इति नियमान षत्वम् । "णिस्तोरेवा०" २१३३७ इत्यत्र स्विदेवर्जनाद् णौ सनि पत्वाभावे सिस्वेदयिषति । घनि स्वेदः । विदांच् गावप्रक्षरणे [ ३३३५ ] विद्यति ॥
अथ भान्ताः पञ्च ॥ ___ १९४७ शुभि दीप्तौ' । शोभते, शुशुभे । द्युताद्यङि अशुभत् , अशोभिष्ट । " नाम्युपान्त्य०" ५१५४ इति के शुभम् । णौ नन्द्याधने शोभनः । “इडितो." ५।२।४४ इत्यने शोभनशीलः शोभन: । भिदादिनिपातनाद् अङि शोभा । उणादौ " ऋज्यजि० " ( उ० ३८८ ) इति किति रे शुभ्रः । शुभत् शोभार्थे [ ५।७३ ] शुम्भतिअत्र " मुचादि०" ४४९९ इति नः ॥
१. मञ्जि इति मु०॥ २. निविदाङ् इति मु० । नैनं धातुं पठति क्षीरस्वामी (क्षी. स. पृ. १०१ ॥)