SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ १३. आचार्यश्रीहेमचन्द्रविरचिते [ धा० ९३८निपातनाद् रुक्मम् हिरण्यम् , रुक्मो वर्णः, सोऽस्या अस्ति इति रुक्मिणी । " नाम्युपान्त्य" ( उ० ६०९) इति किः, रुचिः । मत्वर्थे रे रुचिरम् । " रुचि० " ( उ० ९८९) इति इसि रोचिः, वसुभिः रोचते वसुरोचिः आदित्यः ॥ अथ टान्तास्त्रयः ॥ ९३९ घुटि परिवर्तने' । घोटते, जुघुटे । द्युताघडि अघुटत् , अघोटिष्ट । णके घोटकः । " नाम्युपान्त्य" ५।१५४ इति के घुटः । स्वार्थिक के घुटिका गुल्फास्थि ॥ '९४० रुटि ९४१ लुटि ९४२ लुठि प्रतीघाते' । आयौ दीप्तौ इत्यन्ये । रोटते, रुरुटे । द्युताङि अरुटत् , अरोटिष्ट । “ नाम्युपान्त्य" ५।११५४ इति के रुटः । ठान्तोऽयमित्यन्ये ॥ “९४१ लुटि' । लोटते, लुलटे । द्युताद्यङि अलुटत् , अलोटिष्ट । लुट विलोटने [ १११९० ] लोटति । लुटच् विलोटने [ ३।३४ ] लुट्यति ।। अथ ठान्तः ॥ • ९४२ लुठि' । लोठते, लुलुठे । द्युतायडि अलुठत् , अलोठिष्ट । लुठ उपघाते [ ११२२० ] लोठति । लुठत् संश्लेषणे [ ५।१२८ ] लुठति ॥ अथ तान्तः ॥ ९४३ विताङ् वर्णे' । ङिचाद् आत्मनेपदे श्वेतते, शिश्विते । द्युताडि अश्वितत् , अश्वेतिष्ट । आदिचात् क्तयोनेंट्, श्वित्तः, श्वित्तवान् । “नवा भावारम्भे" ४।४।७२ श्वेतितमनेन, वित्तमनेन, प्रश्वित्तः, प्रश्वेतितः । घजि श्वेतः । उणादौ " ऋज्यजि०" ( उ० ३८८ ) इति किति रे श्वित्रं कुष्ठभेदः ॥ अथ दान्तास्त्रयः ॥ '९४४ जिमिदाङ स्नेहने'। स्नेहनं स्नेहयोगः । मेदते, मिमिदे । धुताधङि अमिदत , अमेदिष्ट । जीचाद् " ज्ञानेच्छा." ५।२।९२ इति वर्तमाने तः, मिन्नः । अत्रादिचाद् नेट, मिन्नवान् । “नवा भावारम्भे" - ४४७२ १. “शुषीषि-बन्धि०" ( उ० ४१६ ) इति किति रेऽपि रुचिरम् भवति ।।
SR No.034254
Book TitleDhatu Parayan
Original Sutra AuthorHemchandracharya
AuthorMunichandravijay
PublisherShahibaug Girdharnagar Jain S M P Sangh
Publication Year1979
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy