SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ आत्मनेधातवः ५९४-६००] स्वोपझं धातुपारायणम् । "युवर्ण-" ५/३।२८। इति अलि प्रवः । “दिद्युद्-" ५।२।८३॥ इति निपातनात् क्विपि कटपूर्नदीतीरः (१) । उणादौ “कमि-अ-गा--"(उ०२२५) इति थे प्रोथः अश्वघोणाग्रम् ॥ प्लुट । प्लवते। पुप्लुवे । अनुस्वारेत्त्वाद् नेट् , प्लोता । णौ सनि “श्रु-सु-"४।१।६१। इति वा ओरित्वे पिप्लावयिषति पुलावयिषति । णौ के सन्वद्भावात् अपिप्लवत् अपुप्लवत् । “भव्य-गेय-" ५।१७। इति निपातनाद्वा कर्तरि घ्यणि आप्लाव्यश्चैत्रो नद्याम् ; पक्षे भावे "उवर्णात्-" ५।१।१९। इति ध्यणि 5 आप्लाव्यमनेन । अचि प्लवः, गौरादित्वाद् ड्याम् प्लवी। “आडो रु-प्लोः" ५/३।४९। इति वा अलि आप्लवः आप्लावः ॥ ५९९ रुंङ् रेषणे च । चकारात् गतौ । रेषणं हिंसाशब्दः । रवते । रुरुवे । अनुस्वारेत्त्वाद् नेट् , रोता रोतुम् । “आङो रु-प्लोः" ५।३।४९। इति वा अलि आरवः आरावः । “रोरुपसर्गात्" ५।३।२२। इति पनि विरावः संरावः । उणादौ "तृ-क-श-" (उ० १८७) इति अणे रवणः । “स्वरेभ्य-" 10 (उ० ६०६) इति इः, रविः । “रु-पूभ्यां कित्" (उ०८०७) इति रौ रुरुः । रुक् शन्दे रौति ॥ अथ ऊदन्तौ द्वौ सेटौ च६०० पूड पवने । पवनं नीरजीकरणम्। पवते। पुपुवे। पविता। पवितुम्। “ग्रह-गुहश्च-" ४।४।५९। इति निषेधापवादे "ऋ-स्मि-पूङ्-' ४।४।४८। इति सनीटि "ओन्तिस्था-" ४।१।६०। इति पूर्वस्योत इत्वे च पिपविषते । यडि पोपूयते । यङ्लपि पोपोति पोपवीति । “पूङ्-क्लिशिभ्यो नवा" 16 ४।४।४५। इति क्त-क्तवतु-क्त्वामादौ वेटि पवितः पवितवान् , अत्र “न डीङ्-" ४।३।२७। इति कित्त्वाभावाद्गुणः; पक्षे पूतः पूतवान् । पवित्वा, अत्र "क्त्वा" ४।३।२९। इति कित्त्वाभावाद्गुणः; पक्षे पूत्वा । "पू-दिव्यश्चे:-" ४।२।७२। इति क्तयोर्नत्वे पूना यवाः, विनष्टा इत्यर्थः । “जि-विपू-न्यो हलि-" ५।१।४३। इति क्यपि विपूयो मुञ्जः । “पूङ-यजः शानः" ५।२।२३। पवमानः। “हलकोडास्ये-" ५।२।८९। इति त्रुटि हलस्य पोत्रम् , सूकरस्य पोत्रम् । “पुव इत्रो दैवते" ५।२।८५। 20 पवित्रोऽर्हन् । “ऋषि-नाम्नोः करणे" ५।२।८६। पवित्र ऋषिः, पवित्रं दर्भादि । “निरभेः पूरुवः" ५।३।२१। इति घनि निष्पावः । नन्द्यादित्वादने पवनः । “न ख्या-पूग्-"२।३।९०। इत्यत्र गितो . आचार्यहेमचन्द्रः 'कट' शब्दं स्वीये संस्कृतद्याश्रये उदाहरति । तथा च-"करिणां कटपूर्न मदो टुवाम्"सर्ग १२ श्लो० ४५ । अत्र श्लोके उदाहृतं 'कटपू' शब्दं ध्याश्रयवृत्तिकारः श्रीअभयतिलकगणिः एवं व्याख्याति"तुवां नश्यतां करिणां मदो नमः-न स्रवति भयेन मदः शुष्क इत्यर्थः। कीदृक् । कटेभ्यो गण्डेभ्यः प्रवते निर्गच्छति कटप्र:-पूर्व प्रवाहेण वहन्नपि-इत्यर्थः" । एवमेव आचार्यहेमचन्द्रः स्वीये अनेकार्थसंग्रहे 'कटप्र' शब्दस्य इमान् अर्थान् कथितवान्-“कटप्रः अक्षदेवने" ॥५२८॥ "विद्याधरे-अस्रपे रुद्रे" । काण्ड ३। नात्र 'कटप्रू' शब्दस्य 'नदीतीरः' इत्यर्थः सूचितः । अपरं च तटवाचकः तीरशब्दः नपुंसकलिङ्गः ततश्च अत्र 'नदीतीरम् इति उचितः पाठः अथवा घट्ट-(भाषायां घाट) वाचकः अपरः 'तार' शब्दोऽप्यस्ति ततो नदीतारः इत्यपि पाठो भवेत् परंतु अस्माभिस्तु-तीरः इत्येव पाठो लब्धः। अन्यच्च पुंलिङ्गः 'तीर' शब्दः त्रपुवाचकः शब्दकल्पद्रुमे दृश्यते परन्तु 'नदीतीरः' इत्यत्र 'त्रपु' शब्देन किं कल्प्येत? अतः कथमपि 'नदीतीरः' इत्यस्य नावगम्यते भावः । २ पोत्रं मुखम् ॥ ३ पवतेइति पवित्रः कर्तरीदम् , केचित् करणेऽपि ॥ ४ पूयतेऽनेनेति पवित्र ऋषिर्दादि च, ऋषो कर्तर्यपि केचित् ॥ ५ निष्पूयते इति विप्रहः ॥
SR No.034254
Book TitleDhatu Parayan
Original Sutra AuthorHemchandracharya
AuthorMunichandravijay
PublisherShahibaug Girdharnagar Jain S M P Sangh
Publication Year1979
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy