SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ सप्तमो नर्तनाध्यायः उपायान्वेषणं चित्तोत्साहस्तस्यानुमावकाः १५७७ ॥ इत्यमर्ष: (१७) सत्युपायेऽपि कार्यस्यासिद्धिदुर्दैवकारिता । नृपापराधश्चौर्यादिग्रहणं च विभावकाः ॥ १५७८ ।। सहायान्वेषणोपायचिन्तने विमनस्कता । उत्तमे मध्यमे चानुभावाश्चोत्साहसंश्रयाः ॥ १५७९ ।। अधमे धावनं ध्यानं मुखशोपविलोकने । निद्रा निःश्वसितं सकलेहनं चानुभावकाः ।। १५८० ।। सन्ति यत्र विषादोऽसौ भावो भावविदां मतः । ____ इति विषादः (१८) देव गैस्तथा यक्षैः पिशाचैर्ब्रह्मराक्षसैः ॥ १५८१ ॥ भूनाद्यैश्च ग्रहैरुपैरावेशस्तत्स्मृतिस्तथा । अशुचेश्चिरसंस्थानं शून्यागारस्य सेवनम् ।। १५८२ ॥ भवति । स्वेदः, अधोमुखता, मूर्धकम्पः, निर्लक्षचित्तता, उपायान्वेषणम्, चित्तोत्साहनमित्येते अनुभावा भवन्ति ; सोऽमर्षः ॥ -१९७५-१५७७ ॥ इत्यमर्षः (१७) (सु०) विषादं लक्षयति-सत्युपायेति । यत्र, उपाये सत्यप कार्यसिद्धिः, नृपापराध इत्याद्या विभावाः । सहायान्वेषणम , उपायचिन्तनमित्याद्या उत्तममध्यमयोरनुभावः ; धावनं मुखशोषणं ध्यानं विलोकनं निद्रा नि:श्वसित सक्कलेहनं चेत्येते अनुभावा अधमे भवन्ति ; स विषादः ॥ १५७८-१५८० ॥ इति विषादः (१८) (सु०) अपस्मार लक्षयति-देवैरिति । यत्र, देवनागयक्षपिशाचब्रह्म Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy