________________
सप्तमो नर्तनाध्यायः वक्ष्ये विशेषलक्ष्याणि रसादेरधुना क्रमात् ॥ १३७९ ॥ विभावैर्वरकान्तायैः स्वकाव्ये कविगुम्फितैः।। साक्षात्कारमिवानीतैर्नटेन स्वप्रयोगतः ॥ १३८० ॥ नीतो रतिस्थायिभावः सदस्यरसनीयताम् ।
नटेन कान्तदृष्टयाधैरनुभावैः प्रदर्शितैः ॥ १३८१॥ धूसरवर्णः, यमदैवतः । रौद्रो रक्तवर्णः, रुद्रदैवतः । वीरो गौरवर्णः, इन्द्रदेवतः । भयानकः कृष्णवर्णः, कालदैवतः । बीभत्सो नीलवर्णः, महाकालदेवतः । अद्भुतः पीतवर्णः, ब्रह्मदैवतः । शान्तः श्वेतवर्णः, बुधदैवत इति क्रमो द्रष्टव्यः ॥ १३७७, १३७८- ॥
(सु०) शृङ्गारादिरसानां वर्णान् देवतांश्च लक्षयति-श्याम इति । श्यामः, सित:, धूसरः, रक्तः, गौरः, असितः, नीलः, पीतः, श्वेत इति क्रमादेते रसवर्णा भवन्ति । विष्णुः, मन्मथः, कीनाशः, रुद्रः, इन्द्रः, काल:, महाकालः, ब्रह्मा, बुध इति क्रमादेते रसदेवता भवन्ति । केचित् शृङ्गारे मकरध्वज इति वदन्ति ॥ १३७७, १३७८-॥
__ (क०) रसादेविशेषलक्षणानि वक्तं प्रतिजानीते-वक्ष्य इत्यादि । रसादेरित्यत्र आदिशब्देन स्थायिव्यभिचारिसात्त्विका गृह्यन्ते । एतेषां समुदायविवक्षया रसादेरित्येकवचन निर्देशः । विशेषलक्ष्माणीति । समुदायिनां शृङ्गारादीनां प्रत्येकं लक्षणानीत्यर्थः । तत्र शृङ्गारं लक्षयतिविभावैरित्यादि । वरकान्तथैरिति । वरश्च कान्ता च वरकान्ते आलम्बनविभावौ । आद्यशब्देन चन्द्रचन्दनमन्दानिलादय उद्दीपनविभावा गृह्यन्ते । स्वकाव्य इति । स्वशब्देन कविरुच्यते । कविगुम्फैरिति । कविना निबद्धैः, अनन्तरं नटेन स्वपयोगतः स्वकीयात् चतुर्विधामिनयप्रयोगात् , साक्षात्कारमानीतैरिव स्थितैः विभावैः । सदस्यरसनीयतां सदस्यैः सामाजिक
Scanned by Gitarth Ganga Research Institute