________________
४०४
संगीतरत्नाकरः विभावाद्यैरनुचितः स्थानत्वाद्विकृतिं गतैः ॥ १३७१ ।। शृङ्गारादिरसाभासाः कृता हास्यस्य हेतवः । फलं बन्धुवधो रौद्रे विभावः करुणे च सः ॥ १३७२ ॥ जगदुस्तद्विदो रौद्रमतः करुणकारणम् । रौद्रं भयानके हेतुमत एव प्रचक्षते ॥ १३७३ ॥ शृङ्गाराद्विमलम्भाख्यात्करुणोत्पत्तिरिष्यते । भयानकेऽद्भुते हेतुं वीरं धीरा बभाषिरे ॥ १३७४ । विदूषकस्य हासस्तु नायके हास्यकारणम् । साम्याद्रुधिरमोहादिविभावाद्वयभिचारिणाम् ॥ १३७५ ॥ बीभत्से सति भीरूणामुत्पद्येत भयानकः । अन्योन्यजन्यजनका भवन्त्येवमिमे रसाः ॥ १३७६ ।। श्यामः सितो धूसरश्च रक्तो गौरोऽसितस्तथा । नीलः पीतस्तत: श्वेतो रसवर्णाः क्रमादिमे ॥ १३७७ ॥ विष्णुमन्मथकीनाशरुद्रेन्द्राः कालसंज्ञकः । महाकाल: क्रमाद् ब्रह्मा बुधश्च रसदेवताः ॥ १३७८ ॥ शृङ्गारे देवतामाहुरपरे मकरध्वजम् ।
(क०) रसानामन्योन्यजन्यजनकभावमाह-विभावाद्यैरित्यादि । ॥ -१३७१-१३७६ ॥
(सु०) रसानां परस्परजन्यजनकभावं लक्षयति--विभावाद्यैरिति ॥-१३७१-१३७६ ॥
(क०) शृङ्गारादीनां क्रमेण वर्णान् देवतांश्चाह-श्याम इति । तत्र शृङ्गारः श्यामवर्णः, विष्णुदैवतः । हासः श्वेतवर्णः, मन्मथदैवतः । करुणो
Scanned by Gitarth Ganga Research Institute