SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ ३४० संगीतरत्नाकर: स्कन्धन्यस्तशिरः सुप्तं कूर्पराधिष्ठितक्षिति ।। ११०९ ॥ यत्तदुद्वाहितं प्रोक्तं लीलयावस्थितौ प्रभोः । इत्युद्वाहितम् (५) ईषत्प्रसृतजङ्घ यत्सुप्तं स्रस्तकरद्वयम् ॥ १११० ॥ तन्नतं स्थानकं खेदश्रमालस्यादिषु स्मृतम् । इति नतम् (६) इति षट्सुप्तस्थानकानि । इत्येकपञ्चाशत्स्थानप्रकरणम् । वाङ्मनःकायजा चेष्टा पुरुषार्थोपयोगिनी ॥ ११११ ॥ वृत्तिः सा भारती सान्त्व त्यारभव्यथ कैशिकी | (सु०) उद्वाहितं लक्षयति-स्कन्धन्यस्तेति । यत्र स्कन्धन्यस्तशिरः कूर्परप्राप्तभूतलं सुप्तम्, तद् उद्वाहितम् । तच लीलया अवस्थितौ प्रभोः पुरतः प्रयोज्यम् ॥ - ११०९, ११०९-॥ इत्युद्रा हितम् (५) (सु० ) नतं लक्षयति - ईषदिति । यत्र ईषत् प्रसृतजङ्घम्, त्रस्तकरद्वयं यत् सुप्तम् ; तद् नतम् | तच्च खेदश्रमालस्यादिषु प्रयोज्यम् ॥ १११०,१११० - ॥ इति नतम् (६) इति षट् सुप्तस्थानकानि । इत्येकपञ्चाशत्स्थानप्रकरणम् । (क०) अथोद्देशक्रमेण वृत्तीर्लक्षयितुं तासां सामान्यलक्षणमाहवाङ्मन: कायजेत्यादि । वाङ्मनः कायेभ्यो जायत इति तथोक्ता । पुरुषार्थोपयोगिनी; अत्र पुरुषार्थशब्देन धर्मार्थकामा गृह्यन्ते, न मोक्षः ; Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy