SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ सप्तमो नर्तनाध्यायः ३३९ सुप्तमुत्तानवक्त्रं च स्रस्तमुक्तकरं समम् ॥ ११०६ ॥ इति समम् (१) आकुचिताङ्गमाविद्धजान्वाकुश्चितमुच्यते । प्रयोगस्तस्य शीतार्ताभिनये शाङ्गिणोदितः ॥ ११०७ ॥ इत्याकुञ्चितम् (२) उपधाय भुजामेकां यत्प्रसारितजानुकम् । सुप्तं प्रसारितं स्थानं सुखसुप्ते तदिष्यते ॥ ११०८ ॥ इति प्रसारितम् (३) विवर्तितमधोवक्त्रं सुप्तं शस्त्रक्षतादिषु । इति विवर्तितम् (४) (सु०) सुप्तस्थानकानि लक्षयति-सुप्तमिति । यत्र उत्तानवक्त्रं, स्रस्तमुक्तकरं सुप्तम् ; सत् समम् ॥ -११०६ ॥ ___इति समम् (१) (सु०) आकुञ्चितं लक्षयति-आकुञ्चिताङ्गमिति । यत्र आविद्धजान्वा आकुञ्चिताङ्गं भवति ; तद् आकुञ्चितम् । तच्च शीतार्ताभिनये कार्यम् ॥११०७॥ इत्याकुञ्चितम् (२) (सु०) प्रसारितं लक्षयति-उपधायेति । यत्र एकां भुजामुपधाय, प्रसारितजानुकं सुप्तम् ; तत् प्रसारितम् । तच्च सुखसुप्ते प्रयोज्यम् ॥ ११०८ ॥ ___ इति प्रसारितम् (३) (सु०) विवर्तित लक्षयति-विवर्तितमिति । यत्र अधोवक्त्रं सुप्तम् ; तद्विवर्तितम् । तच्च शस्त्रक्षतादिषु प्रयोज्यम् ॥ ११०८-॥ इति विवर्तितम् (४) Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy