SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ ३३० संगीतरत्नाकरः अस्यैव चेचरणयोरन्तरं स्यात्षडगुलम् । वितस्तिमात्रमथवा नन्द्यावर्त तदोदितम् ॥ १०७५ ॥ . इति नन्यावर्तम् (३) देहः स्वाभाविकोऽङ्गुष्ठौ पादयोथेन्मिथो युतौ । गुल्फौ च संहतं तत्स्यात्पुष्पाञ्जलिविसर्जने ॥ १०७६ ॥ इति संहतम् (१) वपुः स्वाभाविकं पादौ वितस्त्यन्तरिताउजू । यत्र तत्समपादाख्यं शाईदेवः समादिशत् ॥ १०७७ ॥ इति समपादम् (५) समस्याऽस्तु जानूवं बाह्यपाधं यदीतरः । बाह्यपाधैन लमोऽघिरेकपादं तदोच्यते ॥ १०७८ ॥ इत्येकपादम् (५) (सु०) नन्द्यावर्त लक्षयति-अस्यैवेति । अस्मिन्नेव पादयोरन्तरालं षडङ्गुलं वा वितस्तिमात्रं वा भवति ; तदा नन्द्यावर्तम् ॥ १०७५ ॥ इति नन्यावर्तम् (३) (सु०) संहतं लक्षयति-देह इति । यत्र देहः स्वाभाविकः, पादाङ्गुष्ठौ गुल्फो च मिथः संयुतौ भवतः; तद् संहतम् । तत्पुष्पाञ्जलिविसर्जने कार्यम् ॥ १०७६ ॥ " इति संहतम् (४) (सु.) समपादं लक्षयति-वपुरिति । यत्र शरीरं स्वाभाविकम् ; पादौ वितस्त्यन्तरालगतौ ऋजू भवतः ; तत् समपादम् ॥ १०७७ ॥ इति समपादम् (५) (सु०) एकपादं लक्षयति-समस्येति । यत्र एकः समपादः, जानू स्वबाह्यपार्श्वगतः, इतरो बाह्यपार्श्वलग्नः ; तद् एकपादम् ॥ १०७८ ॥ इत्येकपादम् (६) Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy