SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ ३२८ संगीतरत्नाकरः गत्युन्मुखी च यत्रैक पदमुद्धृत्य नर्तकी । उदास्ते तद्गतिस्थित्योनिरोधात्स्याद्गतागतम् ॥ १०६९ ॥ इति गतागतम् (४) शरीरमीषदलितं पादो वलितदिग्भवः । कनिष्ठाश्लिष्टभूरन्यो भूलनाङ्गुष्ठको यदा ।। १०७० ।। तदा वलितमाख्यातं साभिलाषविलोकने । ___इति वलितम् (५) एकः समोऽधिरन्यस्तु कुश्चितोऽर्धतलागुलिः॥ १०७१॥ अग्रे यदोर्ध्वगौ इस्तौ कर्कटौ मोटितं तदा । कामावस्थासु सर्वासु विनियोगोऽस्य कीर्तितः॥ १०७२ ॥ ___ इति मोटितम् (६) (सु०) गतागतं लक्षयति-गतीति । यत्र नर्तकी एकं चरणमुद्धृत्य गत्युन्मुखी वर्तते, गतिस्थितिनिरोधयुक्तं तद् गतागतं भवति ॥ १०६९ ॥ __ इति गतागतम् (४) (सु०) वलितं लक्षयति--शरीरमिति । यत्र शरीरमीषद्वलितं भवति । एकः पादः कनिष्ठाश्लिष्टभूमिः, अन्यो भूमिलग्नाङ्गुष्ठश्च भवति ; तद्वलितम् । तञ्च साभिलाषविलोकने प्रयोज्यम् ॥ १०७०- ॥ इति वलितम् (५) (सु०) मोटितं लक्षयति-एक इति । यत्र एकः पादः समः, अन्यः कुञ्चितः, अर्धतलागुलिश्च भवति ; अग्रेकर्कटहस्तौ ऊर्ध्व गच्छतः, तन्मोटितम्। तच्च सर्वास्वपि कामावस्थासु विनियुज्यते ॥ -१०७१, १०७२ ॥ इति मोटितम् (६) Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy