SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ सप्तमो नर्तनाध्यायः अवहित्थं तदेव स्याद्विपर्यासेन पादयोः । चिन्तावितर्कयोस्तोषे संलापे च निसर्गजे ।। १०६३ ॥ विस्मये भूरिसौभाग्यगर्वजे स्वाङ्गवीक्षणे । लीलाविलास लावण्यवरमार्गविलोकने ।। १०६४ | कार्यं दौर्गमिदं स्थानमवहित्थस्य सूचकम् । इत्यवहित्थम् (२) ३२७ समस्यैकस्य पादस्य पाष्णिदेशगतोऽपरः ।। १०६५ ॥ सूचीपादः स्वपार्श्वे वा समस्तालान्तरे स्थितः । यत्राश्वारोहणारम्भे तदश्वक्रान्तमुच्यते ।। १०६६ ॥ स्खलिते विगलद्वस्त्रधारणे गोप्यगोपने । प्रसून स्तवकादाने तरुशाखावलम्बने ।। १०६७ ।। नैसर्गिके च संलापे विभ्रमे ललिते तथा । प्रयोक्तव्यमिदं स्थानं भारती चात्र देवता ।। १०६८ ॥ इत्यश्वक्रान्तम् (३) (सु०) अवहित्थं लक्षयति - अवहित्थमिति । यत्र पादयोर्विपर्यासेन रचितं तदेव अवहित्थम् । तच्च चिन्तावितर्कतोपसंलापेषु, नैसर्गिकविस्मये, भूरिसौभाग्यगर्वेण स्वाङ्गावलोकने, लीलाविलासलावण्यवर मार्गविलोकने च प्रयोज्यम् । इदं तु दुर्गादेवताकम् ॥ १०६३, १०६४- ॥ इत्यवहित्थम् (२) (सु० ) अवक्रान्तं लक्षयति - समस्येति । यत्र समैकपादपाणिदेशगतः, सूत्रिपादोऽपरः, स्वपार्श्वे वा समात् तालान्तरे वा तिष्ठति, तद् भारतीदेवतात्मकम् अश्वक्रान्तं भवति । तच्च अश्वारोहणारम्भे, स्खलिते, विगलद्वस्त्रधारणे, गोप्यगोपने, पुष्पस्तबकादाने, वृक्षशाखावलम्बने, नैसर्गिकसंलापे, विभ्रमे, ललिते च प्रयोज्यम् ॥ - १०६५-१०६८ ॥ इत्यश्वक्रान्तम् (३) Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy