SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ सप्तमो नर्तनाध्यायः स्थानं स्थितिर्गतिश्चारी स्थानमाद्यन्तयोर्गतेः ॥ १०१७ ॥ कुट्टितं चरणं पश्चाद् भ्रामयित्वा च विन्यसेत् । कुट्टयेच्च ततः स्थाने चक्रकुट्टनिका मता ॥ इति चक्रकुदृनिका (२२) कुदृयित्वा च विन्यस्य भ्रामयित्वा न्यसेत्ततः । निकुट्टयेत्ततः स्थाने मध्यचक्रा प्रकीर्तिता ॥ - इति मध्यचक्रा (२३) कुट्टयित्वा च विन्यस्य लुठितश्च निकुट्टितः । सा मध्यलुठिता चेति कीर्तितान्वर्थनामिका ॥ ___ इति मध्यलुठिता (२४) कुट्टयित्वा च विन्यस्य भ्रामितो लठितस्ततः । कुट्टितश्च पुनः स्थाने वक्त्रकुट्टनिकाभिधा ॥ इति वक्त्रकुटनिका (२५) एवं प्रकीर्तिताश्चार्यः पञ्चविंशतिसंख्यया । एवमन्याश्च विज्ञेयाश्चार्यो बुद्धया मनीषिभिः" ॥ इति । प्रसङ्गान्मधुपसंज्ञाश्चार्यो दर्शिताः । प्रकृतमनुसरामः ॥ १०१६- ॥ इत्येकोनविंशतिराका शिक्यश्चार्यः । इत्युभय्यश्चतुष्पञ्चाशद्देशीचार्यः । इति षडशीतिर्मार्गदेशीचार्य: । (क०) अथ चारीणामनन्तरं स्थानकानां लक्षणे संगति दर्शयितुमाह-स्थानं स्थितिरित्यादि । स्थीयतेऽस्मिन्निति व्युत्पत्त्या अधिकरण Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy