SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ २३० संगीतरत्नाकरः अञ्चितेऽपसरत्यङ्घावन्यार्नामितं शिरः ।। ७०८ । तस्मिन्पार्श्वे करोऽप्येष रेचितोऽङ्गान्तरं तथा । यत्र तत्सर्पितं मत्तस्योपसर्पापसर्पणे ।। ७०९ ।। इति सर्पितम् (८३) वामत्खको वक्षस्युद्वेष्टिततया परः । त्रिपताकः करः कर्णे तद्दिकचरणोऽञ्चितः ।। ७१० ॥ निष्क्रम्यते यदा प्रोक्तं करिहस्तं तदा बुधैः । इति करिहस्तम (८४) हस्तो यो रेचितस्तदिक्पादयेद्भूमिघर्षणात् ।। ७११ ॥ चरेत्पादान्तरान्मन्दं मन्दमन्यो लताकरः । तदा खेचरसंचारगोचरं स्यात्प्रसर्पितम् ।। ७१२ ।। इति प्रसर्पितम् (८५) ( सु० ) सर्पितं लक्षयति - अश्वित इति । यत्र एकाङ्घ्रौ अञ्चितीभूय, अन्याः अपसरति सति, शिरो नम्यते । तत्पार्श्व एव करोऽप्येष रेचितो यदि भवति ; तथा अङ्गान्तरमप्येवं क्रियते चेत्, तत् सर्पिताख्यं करणं भवति । तच्च मत्तस्य उपसर्पणे, अपसर्पणे च प्रयोज्यम् ॥ - ७०८, ७०९ ॥ इति सर्पितम् (८३) (सु० ) करिहस्तं लक्षयति- - वाम इति । यत्र वामहस्तः खटकामुखतामेत्य वक्षसि भवति । अन्यो हस्तः उद्वेष्टितक्रियया त्रिपताकीभूय कर्णगतो भवति । तद्दिगवस्थितः चरणोऽञ्चितः सन् निष्क्रम्यते ; तत्र करिहस्ताख्यं करणं भवति ॥ ७१०, ७१०- ॥ इति करिहस्तम् (८४) (सु० ) प्रसर्पितं लक्षयति- हस्त इति । यत्र एको हस्तो रेचितो Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy