SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ २२७ सप्तमो नर्तनाध्यायः उत्क्षिप्य कुश्चितः पादः पात्यते भूमिमस्पृशन् । खटकाख्यश्च तदिको हस्तो वक्षस्यथापरः ।। ६९८ ।। अलपद्मः शिरोदेशे तथैवाङ्गान्तरं क्रमात् । यत्र तच्छाईदेवेन गदितं सूचि विस्मये ॥ ६९९ ।। इति सूचि (७४) सूच्येवैकाङ्गरचितमर्धसूचि प्रचक्षते । इत्यर्धसूचि (७५) पक्षवश्चितको वार्धचन्द्रो हस्तः कटीगतः ॥ ७०० ॥ खटकाख्योऽपरो वक्षस्यन्यपाणिस्थितोऽपरः । सूच्यधिश्चेत्तदा सूची विद्धं चिन्तादिगोचरम् ।। ७०१ ॥ इति सूचीविद्धम् (७६) (सु०) सूचि लक्षयति-उत्क्षिप्येति । यत्र चरणमूर्ध्वमुत्क्षिप्य भूमिस्पर्शनं विनैव कुञ्चितं च कुर्यात् । तदिशि वर्तमानो हस्त: खटकामुखो वक्षसि भवति । अथ अपरः करः अलपद्मतामेत्य शिरःप्रदेशगतो भवति । एवमेव अङ्गान्तरमपि कृतं चेत् ; तदा सूच्याख्यं करणं भवति । तच्च विस्मये प्रयोज्यम् ॥ ६९८, ६९९ ॥ इति सूचि (७४) (सु०) अर्धसूचि लक्षयति-सूचीति । एकाङ्गरचितं सूच्येव अर्धसूच्याख्यं करणं भवति ॥ ६९९-॥ ___ इत्यर्धसूचि (७५) __ (सु०) सूचीविद्धं लक्षयति-पक्षवञ्चितक इति । यत्र एक: करः पक्षवञ्चितको वा अर्धचन्द्रो वा कटीगामी भवति ; वक्षसि अन्यः करः खटकामुको भवति । अन्यचरणस्य पाणिप्रदेशे अन्यः चरणः सूची भवति Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy