SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ २२६ संगीतरत्नाकरः सशब्दां कुरुतोऽन्वर्थ तलसंस्फोटितं तदा । इति तलसंस्फोटितम् (७१) समपादस्तु पृष्ठे चेन्निहितश्चरणोऽपरः ॥ ६९५ ॥ मुष्टिवक्ष.स्थितो हस्तोऽप्यर्धचन्द्रः कटीतटे । पार्वजानु तदा ज्ञेयं योज्यं युद्धनियुद्धयोः ॥ ६९६ ॥ इति पार्श्वजानु (७२) पृष्ठेऽद्धिः प्रसृतो भूमिश्लिष्टाङ्गुष्ठौ लताकरौ । यदा तदा महापक्षियुद्धे गृध्रावलीनकम् ॥ ६९७ ॥ इति गृध्रावलीनकम् (७३) पात्यमाने सति, अग्रे यदि हस्तौ सशब्दां तालिकां विदधाते ; तदा तलसंस्फोटिताख्यं करणं भवति ॥ ६९४, ६९४- ॥ इति तलसंस्फोटितम् (०१) (सु०) पार्श्वजानु लक्षयति-समपादेति । यत्र समपादोरूकं यथा तथा पृष्ठे पादौ निहितो भवति । एको हस्तो मुष्टितामेत्य वक्षसि वर्तते । अन्योऽपि अर्धचन्द्रीभूय कटीतटे संतिष्ठते ; तत्र पार्श्वजान्वाख्यं करणं भवति । तच्च युद्धनियुद्धयोः प्रयोज्यम् ॥ -६९५, ६९६ ॥ इति पार्श्वजानु (७२) __(मु०) गृध्रावलीनकं लक्षयति-पृष्ठ इति । यत्र पृष्ठप्रदेशे चरणः प्रसरति ; भूमिं श्लिष्टः श्रित अङ्गुष्टो ययोः, तथाविधौ लताकरौ भवतः; तदा गृध्रावलीनकाख्यं करणं भवति । तच्च महापक्षियुद्धे प्रयोज्यम् ॥ ६९७ ॥ इति गृध्रावलीनकम् (७३) Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy