SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ सप्तमो नर्तनाध्यायः २०९ मण्डले स्थानके स्थित्वा वक्षस्थः खटकामुखः । सूचीमुखं चापसार्य यदा तस्यान्तिके कृतः ॥ ६२८ ॥ अघिद्यट्टितः पार्थ संनतं चापसारणे । तदर्धरेचितं योज्यमसमञ्जसचेटने ।। ६२९ ।। इत्यधरेचितम् (२७) गुल्फयोः स्वस्किं कृत्वा पादयोरपसर्पणे । युगपत्करयोर्यत्रोद्वेष्टनं चापवेष्टनम् ॥ ६३० ॥ कुर्यान्मुहुर्मुट्ठस्तत्तु मत्तल्लि मदवेदकम् । ____ इति मत्तल (०८) नितम्बकेशवन्धादिवर्तनो दक्षिणः करः ॥ ६३१॥ उद्वेगापमृतौ पादौ वामश्चेद्रेचितः करः। कट्यामर्धस्तदा त्वर्धमत्तल्लि तरुणे मदे ।। ६३२ ॥ इत्यधर्मत्तल (२९) (सु०) अधरेचितं लक्षयति–मण्डलेति । मण्डलाख्ये स्थानके स्थित्वा, एको हस्तः वक्षस्थः खटकामुखो भवति । अन्यश्च तत्समीपे अपसार्य सूचीमुखो भवति । पादश्च उद्भट्टितः । पार्वं च संनतं भवति । तत्र अर्धरेचिनाख्यं करणं भवति । तच अपसारणे, असमञ्चसचेष्टिते च प्रयोज्यम् ॥ ६२८, ६२९ ॥ इयधेरेचितम् (२५) (सु०) मत्तल्लि लक्षयति-गुल्फयोरिति । यत्र गुल्फयो: स्वस्तिकानन्तरं पादापसरणं च, करयो: उद्वेष्टनावेष्टने युगपत् मुहुर्मुहुः क्रियते, तत्र मत्तल्ल्याख्यं करणं भवति । तच्च मदवेदने कार्यम् ॥ ६३०, ६३०- ॥ ___ इति मत्तल्लि (२८) (सु०) अर्धमत्तल्लि लक्षयति-नितम्बेति । यत्र दक्षिणः करः नितम्ब Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy