SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ १७४ संगीतरत्नाकरः व्यादीर्ण श्वसितं वक्रं संहतं चलसंहतम् । स्फुरितं वलितं लोलमेवं चिबुकमष्टधा ॥ ५०८ ॥ व्यादीर्ण दूरनिष्क्रान्तं जृम्भालस्यादिषु स्मृतम् । इति व्यादीर्णम् (१) एकागुलमधःसस्तं श्वसितं वीक्षणेऽद्भुते ॥ ५०९ ॥ ___ इति श्वसितम् (२) वर्क तिर्यङ्नतं तत्तु ग्रहावेशे विधीयते । इति वक्रम् (३) निश्चलं मीलितमुखं मौने संहतमिष्यते ॥ ५१० ॥ इति संहतम् (४) (मु०) अथ चिबुकभेदानाह-जिह्वेति । यद्यपि चिबुकं जिलोष्ठदन्तक्रियया लक्षितत्वादुक्तप्रायमेव । तथापि सुखार्थ निरूप्यते । चिबुकमष्टविधम् । यथा-व्यादीर्णम् , श्वसितम्, वक्रम् , संहतम् , चलसंहतम् , स्फुरितम् , चलितम् , लोलमिति । क्रमेण तेषां लक्षणमाह-व्यादीर्णमिति । दूरतो निर्गतं व्यादीर्णम । तच्च जृम्भालस्यादिषु कार्यम् ॥ ५०७, ५०८-॥ इति व्यादीर्णम् (१) (सु०) श्वसितं लक्षयति–एकेति । अङ्गुलपरिमितमधःस्रस्तं श्वसिनम् । तच्च अद्भुते वीक्षणे कार्यम् ॥ -५०९ ॥ इति श्वसितम् (२) (सु०) वक्रं लक्षयति-वक्रमिति । तिर्यङ्नतं वक्रम् । तच ग्रहावेशे कार्यम् ॥ ५०९-॥ ___ इति वक्रम् (३) (सु०) संहतं लक्षयति-निश्चलमिति | मीलितं मुखं यस्मिन् ; तथाविधं निश्चलं चञ्चलरहितं संहतम् । तच्च मौने प्रयोज्यम् ॥ -५१० ॥ इति संहतम् (४) Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy