SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ सप्तमो नर्तनाध्यायः १५९ कुञ्चितौ कम्पितौ पूर्णौ क्षामौ फुल्लौ समौ तथा ॥ ४६१ ॥ कपोलौ षड्विधावुक्तौ तल्लक्षणमथोच्यते । संकोचात्कुश्चितौ रोमाञ्चितौ शीतज्वरे भये ।। ४६२ ॥ इति कुञ्चितौ (१) स्फुरितौ कम्पितौ कायौं रोमहर्षेषु सूरिभिः । ___ इति कम्पिती (२) कपोलावुन्नतौ पूर्णौ तौ गर्वोत्साहगोचरे ॥ ४६३ ॥ इति पूणॆ (३) क्षामौ त्ववनतौ ज्ञेयौ दुःखे कार्याविमौ नटैः । इति क्षामौ (४) गण्डौ विकसितौ फुल्लौ प्रहर्षे परिकीर्तितौ ॥ ४६४ ॥ इति फुल्लौ (५) समौ स्वाभाविको भावेष्वनावेशेषु तौ मतौ । इति समौ (६) इति षोढा कपोललक्षणम् । (क०) अथ कपोलयो/दान् लक्षयितुमाह- कुश्चितौ कम्पितौ पूर्णावित्यादि ॥ ४६१-४६४- ॥ (सु०) अथ कपोलयोर्भेदानाह-कुञ्चिताविति । कुञ्चितौ, कम्पितौ, पूर्णी, क्षामौ, फुल्लौ, समाविति षड्विधौ कपोलौ । क्रमेण लक्षणमाहसंकोचेति । संकोचात् कुञ्चितौ । तौ रोमाञ्चितौ शीते, ज्वरे भये च कार्यों । इति कुञ्चितौ (१) स्फुरणात् कम्पितौ । तौ रोमहर्षेषु कार्यों । इति कम्पितौ (२) उन्नतौ पूर्णौ । तौ गर्वोत्साहयो: कार्यों । इति पूर्णी (३) अवनतौ क्षामौ । Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy