SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ १५८ संगीतरत्नाकरः पृष्ठतो दर्शनं यत्तद्विलोकितमुदाहृतम् । ___ इति विलोकितम् (५) उल्लोकितं तदूर्ध्वस्थवस्तुनो यदवेक्षणम् ॥ ४५९ ॥ इत्युल्लोकितम् (६) सहसा दर्शनं यत्तदालोकितमुदीरितम् । इत्यालोकितम् (७) पार्श्वस्थदर्शनं मोक्तं कृतिभिः प्रविलोकितम् ।। ४६० ॥ इति प्रविलोकितम् (८) साधारणान्यमून्याहू रसभावेषु तद्विदः। ___ इत्यष्टौ दर्शनानि । इत्यष्टौ विषयनिष्ठानि ताराकर्माणि (सु०) विलोकितं लक्षयति-पृष्ठत इति । पृष्ठतो दर्शनं विलोकितमित्युच्यते ॥ ४५८- ॥ इति विलोकितम् (५) (सु०) उल्लोकितं लक्षयति-उल्लोकितमिति । ऊर्ध्वस्थवस्तुनो यदवलोकनं तद् उल्लोकितं भवति ॥ -४५९ ॥ इत्युल्लोकितम् (६) (सु०) आलोकितं लक्षयति-सहसेति । यत् सहसादर्शनम् तद् आलोकितं भवति ॥ ४५९-॥ इत्यालोकितम् (७) (सु०) प्रविलोकितं लक्षयति-पार्श्वस्थेति । पार्श्वस्थदर्शनं प्रविलोकितमिति कृतिभिः प्रोक्तम् । एतानि दर्शनानि रसभावेषु साधारणानी त्याहुः ॥ -४६०, ४६०.॥ ___इति प्रविलोकितम् (८) इत्यष्टौ दर्शनानि । इत्यष्टौ विषयनिष्ठानि ताराकर्माणि | इति तारकाप्रकरणम् । Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy