SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ १५४ संगीतरत्नाकरः उन्मेषितौ तु विश्लेषात्संश्लेषात्तु निमेषितौ ॥ ॥ ४४२ ॥ विवर्तितौ समुदृत्तौ त्रयोऽमी क्रोधगोचराः । इत्युन्मेषितनिमेषितविवर्तिताः (३-५) स्फुरितौ स्पन्दितौ स्यातां तावीर्ष्याविषयौ मतौ ॥ ४४३ ॥ ___ इति स्फुरितौ (6) अतीव कुश्चितौ लग्नौ पिहितौ तौ दृशो रुजि । सुप्तिमूर्छातिवर्षोष्णधूमवाताञ्जनार्तिषु ॥ ४४४ ॥ इति पिहितौ (७) उत्तरेणाधराघातादभिघाते विचालितौ । आहुरन्ये त्वदृश्यौ ताविति विस्फारणात्पुटौ ॥ ४४५ ॥ इति विचालितौ (८) समौ स्वाभाविकावेतौ स्वभावाभिनये मतौ । इति समौ (९) इति नवधा पुटौ। प्रयोज्यौ । आकुञ्चितौ कुञ्चितौ ; तौ रूपादौ, मनोहरे च प्रयोज्यौ । विश्लेषे उन्मेषितौ ; संश्लेषे निमेषितौ ; समुद्वृत्तौ विवर्तितौ । उन्मेषितनिमेषितविवर्तिता अमी त्रयोऽपि क्रोधे प्रयोज्याः । स्पन्दितौ स्फुरितो, तावीर्ष्यायां प्रयोज्यौ । अतीव परस्परसंलग्नौ पुटौ पिहितौ ; तौ रुजि प्रयोज्यौ, तथा सुप्तिमूर्छातिवर्षोष्णधूमवाताञ्चनार्तिषु च प्रयोज्याविति । उत्तरेण पुटेन, अधरस्य अधःस्थिस्य पुटस्य घातात् विताडितौ । तौ च अभिघाते कार्यो । अतिविस्फारणात् अनवलोकनीयौ पुटौ विताडिताविति केचिदाहुः । स्वाभाविको समौ ; एतौ स्वभावाभिनये प्रयोज्यौ ॥ ४४०-४४५- ॥ इति नवधापुटौ। इति पुटप्रकरणम् । Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy