SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ सप्तमो नर्तनाध्यायः सद्वितीयाल्पकस्पन्दादायता मन्थरा भवेत् । चतुरा रुचिरे स्पर्शे शृङ्गारे ललिते च सा ॥ ४३९ ॥ इति चतुरा (७) इति सप्तधा भ्रूः। प्रसृतौ कुश्चितौ स्यातामुन्मेषितनिमेषितौ । विवर्तितौ च स्फुरितौ पिहितौ च विताडितौ ॥ ४४० ॥ समौ च नवधेत्युक्तौ पुटौ सोढलसूनुना । आयतौ प्रसृतौ स्यातां वीरे हर्षे च विस्मये ॥ ४४१॥ इति प्रस्तौ (१) . आकुश्चितौ कुश्चितौ स्तो रूपादौ च मनोहरे । इति कुश्चितौ (२) (सु०) चतुरां लक्षयति-सद्वितीयेति । सद्वितीयं यथा तथा अल्पस्पन्दा दीर्घमन्थरा भ्रूश्च चतुरा । सा च रुचिरे, स्पर्श, शृङ्गारे, ललिते च प्रयोज्या ॥ ४३९ ॥ इति चतुरा (७) इति सप्तधा भ्रः । इति भ्रूप्रकरणम् । (क०) अथ पुटयोर्भेदान् लक्षयति-प्रस्तावित्यादि॥४४०-४४५-॥ (सु०) पुटयोभैदानाह-प्रसृताविति । प्रसृतौ, कुञ्चितौ, उन्मेषितो, निमेषितो, विवर्तितौ, स्फुटितौ, पिहितौ, विचलितौ, समाविति नवविधौ पुटौ । क्रमेण लक्षणमाह-आयताविति । आयतौ प्रसृतौ वीरे हर्षे विस्मये च 20 Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy