SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ १४७ सप्तमो नर्तनाध्यायः या दृष्टिः पतितापाङ्गा विस्तारितपुटद्वया । निमेषिणी स्तब्धतारा विषण्णा सा विषादिनी ॥ ४१८ ॥ इति विषण्णा (१३) मधुरा कुश्चितापाझा सभ्रूक्षेपा स्मितान्वितां । मन्मथोन्मथिता दृष्टिललिता ललिते मता ॥ ४१९ ॥ ___ इति ललिता (१४) किंचित्कुश्चत्पुटापाङ्गा दृष्टिरर्धनिमेषिणी । पृथक्पथे चान्यनेत्रान्मुहुस्ताराविवर्तिनी ॥ ४२० ॥ आकेकरा दुरालोके स्याद्विच्छिन्ने च वस्तुनि । इत्याकेकरा (१५) (सु०) विषण्णां लक्षयति-या दृष्टिरिति । या दृष्टिः, पतितापड़ा; पतितौ अपाङ्गौ यस्याः, विस्तारितपुटद्वया ; निभेषिणी ; निमेषवती, स्तब्धतारा; निश्चलतारा च सा विषण्णा । सा च विषादे प्रयोज्या ॥ ४१८ ॥ इति विषण्णा (१३) (सु०) ललितां लक्षयति-मधुरेति । माधुर्यवती, कुञ्चितापाङ्गा, भ्रूक्षेपस्मितयुक्ता, मन्मथोन्मथिता; मदनोन्मादिनी दृष्टिः ललिता। सा च ललिते प्रयोज्या ॥ ४१९॥ " इति ललिता (१४) (सु०) आकेकरां लक्षयति-किंचिदिति । किंचित्कुश्चत्पुटापागा; अल्पसंकुचितौ पुटौ अपाङ्गौ यस्याः; अर्धनिमेषवती, अन्यनेत्रापेक्षया पृथक्पथे मार्गे यस्या मुहुः प्रतिक्षणं तारां विवर्तयन्ती दृष्टिः, सा आकेकरा । सा च दुरलोके, विच्छिन्ने वस्तुनि च प्रयोज्या ॥ ४२०, ४२०- ॥ इत्याकेकरा (१५) Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy