SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ १४६ संगीतरत्नाकरः अनिष्टेऽसूयिते तेजो दुष्पेक्ष्येऽक्षिव्यथासु सा । इति कुञ्चिता (१०) उद्भामितपुटोत्फुल्लताराधःसंचरन्त्यपि ॥ ४१५ ॥ वितर्कितोदिता दृष्टिवितर्के साभिधीयते । इति वितर्किता (११) विलोकनालसे तारे व्यथाप्रचलितौ पुटौ ॥ ४१६ ॥ यस्याः संभ्रान्तवद्भान्ति साभितप्ताभिधीयते । निर्वेदे घेदितव्या साप्यभिघातोपतापयोः॥ ४१७ ॥ इत्यभितप्ता (१२) कुश्चितानि; तारा च; कनीनिका च सम्यक् कुञ्चिता सा दृष्टिः कुञ्चिता । सा च अनिष्टे, अनभिप्रेते, असूयायाम् , तेजसा दुष्प्रेक्ष्ये सूर्यादौ ; अक्षिव्यथासु, नेत्रव्यथासु च प्रयोज्या ॥ ४१४, ४१४-॥ इति कुचिता (१०) (सु०) वितर्कितां लक्षयति-उद्भामितेति । उद्भामितपुटा ; उद्भ्रामितौ पुटौ यस्याः ; उत्फुल्लतारा; उत्फुल्ले तारके यस्याः ; अध:संचारिण्यपि विकासितकनीनिका दृष्टि: वितर्किता। सा च वितर्के प्रयोज्या ॥-४१५, ४१५॥ इति वितर्किता (११) (सु०) अभितप्तां लक्षयति-विलोकनेति । विलोकनविषये अलसं कनीनिकाद्वयं यत्र, व्यथया अत्यन्तचञ्चलौ, पुटौ यस्याः संभ्रान्तवत् भान्ति भासमाना सा दृष्टिः अभितप्ता | सा च निवेदे, अभिघाते, उपतापे च प्रयोज्या ॥ -४१६, ४१७ ।। इत्यमितप्ता (१२) Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy