________________
16
सप्तमो नर्तनाध्यायः
भ्रामयित्वा विलासेन तदान्दोलितकर्मणा ॥ सरलात्सारितोद्वेष्टात्प्रसारितकनम्रकैः ।
:
लुठितौ स्वैरमंसान्ते मण्डलोर्ध्वगौ ॥ विश्रमाभिमुखौ चैव पर्यायेण तु यत्र वै । पतितोत्पतितौ बाहुर्मूर्ध्नः कट्यवसानकम् ॥ ततः स्वस्तिकत्रन्धेन कमनीयेषु केषुचित् । अरं तत्र प्रदेशेषु वामदक्षिणघूर्णितौ ॥ अन्तर्बहिश्चक्रभावं सविलासमथाश्रितौ । कूर्परस्वस्तिकेनैव पराचीनप्रलोलितौ ॥ अथवा सरलत्वेन केवलं द्रुतमानतः । वामदक्षिणयोः पश्चात् त्रिकपर्यन्तलोलितौ ॥ एकैकं स्वस्तिकं चाथ नयनानन्ददायकौ । ऊर्ध्वाधोवदनौ त्र्यकरौ यत्र गतौ मुने ॥ कररेचकरत्नाख्यं लक्षितं तत्पुरारिणा । इदं तु कमनीयं वै यत्र यत्र प्रयुज्यते ॥ यक्षा विद्याधाधराः सिद्धाः पद्मभूश्च महर्षयः । तत्र तत्र प्रदेशेषु प्रीतास्तिष्ठन्त्यपेक्षिताः ॥ इन्द्रादिदेवाः प्रीताः स्युः प्रीणाति परमेश्वरः । ग्रन्थविस्तर भीतेन कथ्यते नास्य विस्तरः ॥
इति कररेचरत्नम् (४०) एकस्मिंस्तु पराचीने लठमाने विलासतः । अन्यो हस्तः शिरः क्षेत्र पर्यन्तं चेद्गतागतः ॥ पुनस्तन्मुख एव स्याच्छरसंधाननामकम् । इति शरसंधानम् ( ४१ )
१२१
Scanned by Gitarth Ganga Research Institute