SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ ११८ संगीतरत्नाकरः आपादिकगतश्चाथ तत्रैवाबद्धमण्डलः ।। सव्यापसव्ययोश्चैव पार्श्वयोर्वर्तन क्रिया । दक्षिणो यत्र हस्तस्तु ततो वामांसमुद्यतः ॥ वेगाद्विदिशि गत्वात्र लुठितः सव्यपार्श्वगः । तदन्यस्मिन् विलुठितो यत्र नाभिसमीपगः ॥ मुरुजाडम्बरं नाम निर्णीतं यमिनां वर । इति मुरुजाडम्वरम् (२६) अंसान्तरक्षेत्रगतौ बाहू चेत्पार्श्वयोर्द्वयोः ॥ पतेतां युगपद्यत्र द्वारदामविलासकम् । इति द्वारदामविलासकम् (२७) बद्धस्वस्तिकयोः पार्श्वे तिर्यग्वेगात्प्रसर्पतोः ॥ एको निवृत्य सहसा यदि कर्णावतंसकः। धनुराकर्षणाख्यं तन्निर्णीतं भट्टतण्डुना ॥ इति धनुराकर्षणम् (२८) कटीक्षेत्रगतौ चाथ तिर्यद्विगुणचालितौ । अन्तरामण्डलभ्रान्तिकारिणौ बहिरेव वा ।। युगपञ्च करौ यत्र तच्च साधारणं स्मृतम् । इति साधारणम् (२९) समप्रकोष्ठवलनमन्वर्थमिह कीर्तितम् ।। अथवाविद्धकेन स्यादपविद्धेन वा च तत् । इति समप्रकोष्ठवलनम् (३०) अरालकपरावृत्त्या पार्श्वयोरपि च द्वयोः । Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy