SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ सप्तमो नर्तनाध्यायः लुठमाने तदन्यस्मिन्नाभिक्षेत्रसमीपगे । पर्यायाद्वर्तते रम्यं चतुष्पत्राउजमीरितम् ॥ इति चतुष्पत्राब्जम् (२०) मुष्टिरूपस्तु लुठितस्तदूर्ध्व चार्जवात्पुनः । गतागतः पार्श्वयोश्च तत्पश्चादग्रतो गतः ।। चलमाने तदेतस्मिन् पूर्वोक्तस्थानगामिनि । पर्यायेण करो यत्र मण्डलामाभिधं तु तत् ।। इति मण्डलाग्रम् (२१) उत्प्रकोष्ठं च पर्यायादंसपर्यन्तकान्तरे । लुठितौ च तथाधस्ताद्गामिनौ च प्रभावतः ॥ भवतो यत्र तु करौ वालव्यजनचालनम् । इति वालव्यजनचालनम् (२२) यत्र त्रिकोणमर्यादामनुसृत्य प्रलोड्यते ॥ पुरस्तात्पार्श्वयोश्चैव करो मण्डलचारतः । तद्वीरुधबन्धाख्यमुद्दिष्टं भट्टतण्डुना ॥ इति वीरुधबन्धनम् (२३) प्रतिलोमानुलोमाभ्यामस्यैव खलु या क्रिया । विशृङ्गाटकबन्धाख्यं मतङ्गस्तदुवाच ह ।। इति विशृङ्गाटकबन्धनम् (२४) वामदक्षिणयोर्यत्र करस्थस्य विलोडनम् । कुर्वन् गतागतं दिक्षु व्यर्थ वा वर्तते पुनः ॥. तद्वै कुण्डलिचाराख्यं प्रणीतं प्राच्यसूरिभिः । इति कुण्डलिचारकम् (२५) Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy