SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ १०२ संगीतरत्नाकर: निष्क्रामन्मणिबन्धस्थवर्तनामाश्रितो भुजः ।। ३४२ ।। उद्वेष्टितो भवेत् इत्युद्वेष्टित: ( ९ ) पृष्ठानुसारी पृष्ठतो गतः । भवेत्तूणशराकर्षे वीटिकाग्रहणे च सः || ३४३ ॥ इति पृष्ठानुसारी (१०) मस्तकोपरि स्वस्तिकाकार विन्यस्तावत्तानितहस्ततलौ बाहू लोकप्रसिद्धौ । परीरम्भे स्वसंमुखहस्ततलौ स्वस्वपार्श्वात्पार्श्वान्तरगतौ बाहू प्रसिद्धौ । अभिवादने तु तादृशावधोमुखहस्ततलौ बाहू प्रसिद्धौ । एवं हस्ताद्यभिनयेष्वपि प्रचारविशेषानभिधानेऽपि विनियोगवशाद्विशेषो द्रष्टव्यः ॥ ॥ - ३४१, ३४१- ॥ इति स्वस्तिकः ( 2 ) (सु० ) स्वस्तिकं लक्षयति - स्वस्तिक इति । लग्नयोः सङ्गतयोः बाहोः पार्श्वव्यत्यासतः स्थितौ सत्यां स्वस्तिको भवति । स च भानोरुपस्थाने ; परिरम्भे ; अभिवादने च प्रयोज्यः ॥ - ३४१, ३४१- ॥ इति स्वस्तिक : (८) (सु० ) उद्वेष्ठितं लक्षयति-- निष्क्रामभिति । मणिबन्धस्थां पूर्वोक्तवर्तनामाश्रित्य निष्क्रामन् भुज उद्वेष्टितः ॥ ३४२, ३४२ ॥ इत्युद्वेष्टित: ( ९ ) (सु० ) पृष्ठानुसारिणं लक्षयति--पृष्ठानुसारीति । पृष्टतो गतः पृष्ठानुसारी । स च तूणात् शराकर्षे, वीटिकाग्रहणे च प्रयोज्यः ॥ - ३४२, ३४३ ॥ इति पृष्ठानुसारी (१०) Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy