SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ ४५१ षष्ठो वाद्याध्यायः ४५१ कृत्वा खण्डं पाटबद्धं यतिवद्वादनं भवेत् ॥ १००२ ॥ एवमात्तिकरणादाहुः खण्डयति बुधाः । . इति खण्डयतिः खण्डच्छेदसमायोगात्खण्डच्छेदपबन्धयोः ॥ १००३ ।। छेदैर्व्यक्तैः समायुक्तं खण्डच्छेदं परे जगुः । इति खण्डच्छेदः यस्यां विरतिरन्ते च तालस्य व्यापकाक्षरैः ।। १००४ ॥ सपार्बद्धखण्डा या साख्यातावयतिर्बुधैः । इत्यवयतिः पाटस्य खण्डनाद्वाये खण्डपाटोऽभिधीयते ॥ १००५ ॥ इति खण्डपाट: खण्डः स्यात्खण्डमध्येऽपि खण्डशो वादने सति । इति खण्डकः स्रोतोगताख्यया यत्या खण्डहुल्लोऽभिधीयते ॥ १००६ ।। इति खण्डहुल्लः कृत्वेति । पाटनिबद्धं खण्डं कृत्वा पूर्वोक्तयतिवद् वादनं यत्र भवति । एतदावृत्तौ खण्डयतिः, इति खण्डयतिः (५); खण्डच्छेदयोः संयोगात् खण्डच्छेदः । अन्ये तु च्छेदैरवयवपाटै: व्यक्तैश्च युक्तममुं विदुः, इति खण्डच्छेदः (६) यस्यामिति । अन्ते तालस्य विरतिः, सपाटैः पाटसहितैः व्यापकाक्षरैः उपनिबद्धा च सा अवयतिः, इत्यवयति: (७); वाद्ये पाटस्य खण्डनात् खण्डपाटः, इति खण्डपाट: (८); खण्डमध्ये खण्डश: अवयवशः वादने क्रियमाणे खण्डकः, इति खण्डकः (९); तस्मिन्नेव खण्डके स्रोतोगताख्यया Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy