SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ संगीतरनाकरः ओतां कृत्वा द्विरुद्ग्राहः सकृद्वा व्यापकाक्षरैः ॥ ९९८ ॥ सपाटैर्विहितो यत्र प्रान्ते रचितदेकृतिः । मध्ये लये छण्डणः स्याद्रूपकं तन्निरूपितम् ॥ ९९९ ॥ इति रूपकम् निबद्धो वादितो गीतवाद्यसंधौ मतोऽन्तरः । इत्यन्तरः अन्तरं वादयित्वा चेदनिवद्धस्य वादनम् ॥ १००० ॥ क्रियतेऽन्तरपाटः स्यात्तदा निःशङ्कसंमतः । इत्यन्तरपाट: समाश्लिष्टघनश्लक्ष्णपाटवर्णविनिर्मितः ॥ १००१ ॥ हस्तलाघवसंपन्नः खोजः संजल्पितो बुधैः । इति खोज: (क०) इतः परं रूपकादीमां लक्षणानि ग्रन्थत एव सुबोधानि ।। -९९८-१०१६ ॥ (सु०) इदानीं रूपकादीनां लक्षणं वक्तुमाह-ओतामिति । पूर्वोक्तामोतां कृत्वा यत्रोद्ग्राहः व्यापकाक्षरैः पाटसहितैः कृतः, इति रूपकम् ; अन्ते च देंकारेण युक्तः सकृत् द्विर्वा गेय: मध्यलये च छण्डणः, तद्रूपकम् (१); निबद्धमिति । पाटतः पाटैीत्वा, गीतवाद्यसंधिगत: निबद्धोऽन्तरः, इत्यन्तर: (२); अन्तरमिति । अन्तरवादनानन्तरम् , अनिबद्धस्थवादनं क्रियते चेत् तदन्तरपाटः, इत्यन्तरपाट: (३); समेति । समैः समानैः श्लिष्टैः घनैः निबिडै: श्लक्ष्णैः मसृणैः पाटवणैर्निबद्धः हस्तलाघवसंयुक्तेन वाद्यमानो खोजः, इति खोज: (४); Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy