SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ ३६० संगीतरत्नाकरः तदोषाच्छादनं मार्गदेशीरागेषु कौशलम् ।। ६६४ ॥ स्वस्थानवदपस्थाने रागोभृतिप्रगल्भता । वांशिकस्य गुणानेतान्यक्ति श्रीकरणायणीः ॥ ६६५ ॥ इति वांशिकगुणा: आरोहावरोहयोः वेगकृतयोरपि सुरागव्यक्तिमाधुर्यान्वितत्वं गुण इत्यर्थः । गातृणां तानदायितेति । गातृभिः गातुमिष्यमाणस्य तानस्य तत्तद्रागानुगुण्येन प्रथमं प्रदर्शनम् । स्थानदायितेति पाठे तु स्थानानि मन्द्रमध्यताराणि, तेषां प्रदर्शनम् । तदोषाच्छादनमिति । तेषां गातॄणां दोषाः संदष्टत्वादयः पूर्वोक्ताः पञ्चविंशतिः, तेषामाच्छादनम् । यथा श्रोतणां रागभङ्गो न भवति, तथा तद्दोषतिरोधानं वांशिकः कुर्यादित्यर्थः । स्वस्थानवदपस्थाने रागोत्पत्तिप्रगल्भतेति । स्वस्थानानि पूर्वोक्तानि मुखचालनादीनि चत्वारि । ततोऽतिरिक्तानि स्वस्थानान्यपस्थानान्युच्यन्ते । अत्र यद्यपि स्वस्थान एव रागाभिव्यक्तिर्भवति, नापस्थाने; तथापि वांशिकः स्वप्रगल्भतया अपस्थानेऽपि स्वस्थानवद्रागमुत्पादयति चेत , स तस्य गुणः ॥ ६६३-६६५ ॥ इति वांशिकगुणाः ___ (सु०) वांशिकगुणानाह--अङ्गुलीति । अगुलीसारणे पिधानमोचनादौ अभ्यासः, सुस्थानत्वम् , सम्यक्स्थानप्राप्तिः; सुरागता, यथोक्तरागाभिव्यक्तिमाधुर्यान्विता, तद्वेगात् गतागतिः, प्रबन्धवादने शक्तिः, गायकानां स्थानप्रदायित्वं, गायकदोषाच्छादनं, सर्वरागपरिज्ञानं, स्वस्थानवदपस्थानेऽपि रागोद्भवशक्तत्वमेते वांशिकस्य गुणाः ॥ ६६३-६६५ ॥ इति वांशिकगुणाः Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy