SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ २५४ संगीतरत्नाकरः अत्रोत्तराधरौ ज्ञेयौ मन्द्रतारौ स्वरौ क्रमात् ॥ १३७ ॥ उत्तराधरघातौ हि तयोनिष्पादकाविह । संघातजे ये चत्वारस्तथाष्टौ समवायजे ॥ १३८ ॥ भेदास्तेऽन्वर्थनामानस्तल्लक्ष्मोक्तिरनर्थिका । तथापि बालवोधाय तान्वयं विवृणीमहे ।। १३९ ।। मन्द्रस्वरद्विरुच्चाराद्धातुरत्र द्विरुत्तरः । ___ इति द्विरुत्तर: (१) तारस्थाने द्विराघाताद्धातुरिधरो भवेत् ॥ १४० ॥ इति द्विरधरः (२) यस्त्वादितारो मन्द्रान्तः सोऽधराद्युत्तरान्तकः । ___ इत्यधराद्युत्तरान्तकः (३) आदौ मन्द्रस्ततस्तार उत्तराद्यधरान्तके ॥ १४१ ॥ इत्युत्तरायधारन्तकः (४) एते संघातजे भेदा द्विःप्रहारभवे मताः । इति संघातजस्य भेदचतुष्टयम् (क०) अत्रोत्तराधराविति । अत्र, वीणायाम् , उत्तरस्वरो मन्द्रः, अधरस्वरस्तार इत्यनेन वैपरीत्यं दर्शितं भवति । शरीरे हि अधरो मन्द्रः, उत्तरस्तार इति द्रष्टव्यम् । तत्रोपपत्तिमाह-उत्तराधरघातौ हीति । हि; यस्मात्कारणात् उत्तरतन्त्रीघातो मन्द्रस्वरस्य निष्पादकः, अधरतन्त्रीघातस्तारस्वरस्येत्यर्थः ॥- १३७-१४१- ॥ (सु०) अत्रेति । अत्र उत्तरो मन्द्रः, अधरस्तारः; अत्र उत्तरधातुमन्द्रनिष्पादकः, अधरधातुस्तारनिष्पादक इति । संघातज इति । संघातजे ये Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy