SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ पश्चमस्तालाध्यायः १७५ इत्येतदुद्दिष्टोत्तरम् । तत्रैव प्रस्तारे लघुप्लुतात्मके भेदे उद्दिष्टे पूर्ववत् द्वयकोऽवशिष्टः । अत्रोद्दिष्टस्थितेनोपान्त्येन लघुना नष्टे तल्लघुलामहेतावेकाङ्के पातिते सति पुनरेकस्मिन्नवशिष्टे प्रथमोऽयं भेद इत्युत्तरम् । एवमुत्तरोत्तरेष्वप्यकेषु प्लुतयुक्तभेदो द्रष्टव्यः । प्लुतयुक्तभेदविषयत्वादेवास्योत्तरस्याव्यापकत्वम् । ___ननु चानन्तरोदाहृतलघुप्लुतात्मके भेदे प्लुतस्यान्त्यत्वात् यद्वेति पक्षान्तराश्रयणेनान्त्यषष्टयङ्कमध्ये तदादिप्राचि सप्तमे द्वयङ्के पातिते सति शेषत्वेनाष्टपञ्चाशदङ्कः प्लुताल्लव्धः । अथ लघुना पातितोऽङ्को लभ्यः । तत्रान्त्यशेषद्वये गुरुहेतोस्तृतीयत्वेन पतितात् षडङ्कापूर्वस्य व्यङ्कस्यापतितत्वेन नष्टे द्रुतः कथं न लब्धः । अत्र द्वयकैकाङ्कयोरेकतरस्य पातसंभवात् लघुना को लभ्यत इति संदेहः । तत्रैकाके पातित एकस्यावशिष्टत्वात्प्रथमोऽयं भेद इत्युद्दिष्टोत्तरमिष्टं सिध्यति । द्वयङ्केषु पातितेपु शेषाभावात् तन्न सिध्यत्येव । अत्र कथं निर्णय इति चेत् ? उच्यते--प्रथमं तावत् नष्टो नष्टाङ्कभिन्नाङ्कशेषक्रमेण पूर्वाङ्केषु पातितेषु यावन्तः पातिताः तेभ्यस्तावन्तो द्रुता लभ्या एव । द्रुतस्य लाभानन्तरं वा आदित एव वा असहायपतितालधुः । सान्तरपतितात्पृशग्लघुः । निरन्तरपतिताद गुरुः । गुरुहेतोस्तृतीयात्पतितारप्लुतो लभ्यत इत्युक्तमेव । अत्रायं विशेषो विज्ञेयः-प्रथममपतितात् द्रुतो लभ्यत एव । पतितादनन्तरमपतितात्तु सर्वत्र द्रुतो न लभ्यते । किंतु दुतहेतुना अन्यथा वा यत्रोत्तरेणापतितेन सहितः पातितो लघुहेतुर्भवति, तत्र पतितानन्तरमपतितादपि पूर्वाकाद् द्रतो न लभ्यते । एवं पतितादनन्तरमपतितात्तु सर्वत्र प्लुतो न लभ्यते। यत्र त्वपतितेन पूर्वेण सहितः पतितो लघुहेतुर्भवति, तत्र तस्मादपतितादपि द्रुतोन लभ्यत एव । ततः पूर्वादपतितात्तु द्रुतो लभ्यत एव । तस्मात् यत्र लघुर्लभ्यते तत्राङ्कद्वयं निवर्तते, यत्र गुरुर्लभ्यते तत्राङ्कचतुष्टयं निवर्तते, यत्र प्लुतो लभ्यते तत्राङ्कषट्कं निवर्तत इति न्यायस्य व्यापकत्वमुत्तरेणा Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy